________________
प्र० वा० वृत्ती० (४ परिच्छेदः)
कि (1) धर्मिणि सत्तामात्रं न सम्बन्धः । किन्तु (1)
नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते । केवलं शाखपीडेति दोष: सान्यकृते समा ॥६८॥
४३८
१
साध्ये नान्तरीयकता साध्याविनाभावित्वं सम्बन्ध उच्यते (1) सा साध्यनान्तरीयता इह प्रकृताकाशगुणत्वबाघने सति नेक्ष्यते * (1) यद्यपि सत्वनान्तरीयकमाकाशगुणत्वं शब्दे स्यात् न बाध्येत । केवलं शास्त्राभ्युपगतधर्मबाधनाछात्रपीडेति दोषः । सा च कृतकत्वादनित्यत्व' सिद्धौ दृश्यते शास्त्रपीडाइत्येन शुयुत्नानन्तरीयकत्वादिना गन्धे पृथिवीगुणत्वबाधनेपि समेति कृतकत्वं शब्दे रुद्धं स्यात् ॥ (६८)
प्राचार्ययाः शास्त्रमभ्युपगम्य यदा वादः क्रियते तदा शास्त्रदृष्टस्य सकलस्य धर्मस्य साध्यतेत्यत्राह ।
शास्त्राभ्युपगमात् साभ्यः शास्त्रदृष्टोऽखिलो यदि । प्रतिज्ञाऽसिद्धदृष्टान्तहेतुवादः प्रसज्यते ॥ ६९ ॥
शास्त्राभ्युपगमाच्छास्त्रदृष्टोऽखिलो धर्मो यदि साध्य इष्यते तदाऽसिद्धयोः शास्त्रोद्दिष्टयोर्हेतुदृष्टान्तयोर्व्वादः प्रतिज्ञा साध्यं प्रसज्यते । शास्त्रे दृष्टस्यासिद्धस्य साध्यत्वात् ॥ (६९)
स्यात् । किन्तु (1)
उक्तयोः साधनत्वेन नो चेदीप्सितवादतः । न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते ॥७०॥
वादिनेप्सितस्य साध्यत्वेन वादतः स्वयं साध्यत्वेनेप्सितः पक्षो विरुद्धत्वान्निराकृत इत्यादिकात् साधनत्वेनोक्तयोरसिद्धहेतुदृष्टान्तयोः साध्यता नो चेत् । नन्वसिद्धस्य शास्त्राभ्युपगतस्य साध्यत्वं न्यायप्राप्तं वचनमात्रादीप्सितसाध्यत्वं प्रतिपादकत्वात विनिवर्तते ॥ ( ७० )
8
૧ साध्यस्य तदन्यनान्तरीयकता यथाऽनित्यत्वस्य दुःखादिनान्तरीयकता |
२ केवलं संयोगादिविपर्यासनाच्छास्त्रवाचा |
" साध्यत्वेनेप्सित इति कृतं अन्यत्र स्वरूपेणैवेत्यवधारणमतः ।
# और्ण्यमिवाग्नेः ।