________________
शब्दाप्रामाण्यचिन्ता
४३५ तत्र स्वसाध्ये सिध्यति साध्यप्रतिपादनं साध्यव्यापारः तच्चेदस्ति कथं दुष्टः।(५६) शास्त्रार्थबाधनेऽभिमतस्यापि न सिद्धिरिति चेत्। आह ॥
धर्माननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् ।
वाग्धूमादेर्जनोन्वेति चैतन्यदहनादिकम् ॥५७॥ धर्मिणो'धर्मान् शास्त्रदर्शितानखिलान् हेतुव्यापकत्वेनानुपनीयाप्रदर्श्य वाग्धूमादेहेंतोश्चैतन्यदहनादिकं यथाक्रमं स्वसन्तान वन्महानसवच्च जनोऽन्वेति प्रतिपद्यते ॥(५७)
किञ्च (1) - स्वभावं कारणं चार्थोऽव्यभिचारेण साधयन् ।
कस्यचिद् वादबाधायां स्वभावान निवर्तते ॥१८॥ स्वभावं व्यापकं वृक्षत्वादि कारणं वह्नयादि चार्थो व्याप्यः शिंशपादि : कार्य धूमादिरव्यभिचारेणाविनाभावित्वात् साधयन् कस्यचित् शास्त्रपराधीनस्य वादिनो वादस्य बाधायां स्वभावात् व्यापककारणगमकान निवर्त्तते ततः शास्त्रेषु धर्मान्तरव्याहतावपि हेतुः साध्यीकृतं स्वसम्बद्धमर्थं प्रतिपादयति । (५८)
ततश्च ।
प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः।
साध्याथैहेतुना तेन कथमप्रतिपादितः ॥५९॥ साध्यैरथैरीप्सितराप्तं प्रत्येतुमिष्टान्तरीयकमविनाभाविनं तं हेतुं प्रपद्यमानः प्रतिपद्यमानोन्यः प्रतिवादी कथन्तेन हेतुनाऽप्रतिपादितः साध्यनान्तरीयकतया क्वचिद्धर्मिणि साधनप्रतीतिरेव हि साध्यप्रतीतिः सा चास्ति प्रतिवादिनः ॥(५९)
किञ्च (1) . हेतुना यः शास्त्रार्थो बाध्यते किन्तस्मिन् साध्ये वादिना हेतुरसाधूक्तः । आहोश्वि (? स्वि)त् तत्र साध्ये हेतुरुच्यतां मा वा वस्तुतस्तद्वाधकोसौ हेतुरिति दुष्टता। तत्राद्यपक्षे भवत्येव दोषो यद्येवमिष्यते (1) अथ (1) .
उक्तोऽनुक्तोपि वा हेतुर्विरोद्धा वादिनोत्र किम् । न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः ॥६०॥
'चेतनोयं वचनादहमिव।
प्रकृतसाधकेन यथा कृतकत्वेनाकाशगुणत्वादि।