SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्र० वा० वृत्तौ ० (४ परिच्छेदः) विशेषाश्रयरहितैर्गोपालकादिभिर्द्ध मेन लिङ्गेन नानलो ग्राह्यः । (५३) न च कस्यचित् सिद्धान्तसम्बन्धो युक्तः । तथा हि सम्बन्धो भवन् सहजो वा भवेदपाधिको वा (1) द्वयमपि निषेद्धुमाह । १ रिक्तस्य जन्तोर्जातस्य गुणदोषमपश्यतः । विलब्धा वत केनामी सिद्धान्तविषमग्रहाः || ५४ ॥ ४३४ रिक्तस्य तुच्छस्य सिद्धान्तरहितस्य जन्तोर्जातस्यानेन सहज सम्बन्धाभाव - निमित्तमुक्तं । गुणदोषं प्रामाण्याप्रामाण्यनिबन्धनमपश्यतः । अनेनोपाधिकसम्बन्धनिमित्ताभाव उक्तः । ४ केनानर्थपटीयसा सिद्धान्ता एव विषमग्रहा दुष्परिहारत्वादिमे विलब्धा ६ वत येषु स्वामित्वेन जन्तवो व्यवहरन्ति । न हि कर्णनाश (? स ) मिव सिद्धान्तः प्राणिसहजः । नापि दोषोज्जितगुणोपपन्नः प्रमाणमिव विचारात् प्राक् सिद्धान्तः सिद्धो येन समर्थविषयः स्यात्। (५४) किञ्च (1) यदि साधन एकत्र सर्व शास्त्रं निदर्शने । दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥५५॥ यदि साधन एकत्र सर्व्व' शास्त्रं शास्त्रार्थं निदर्शने दृष्टान्ते वादी दर्शयेत् तदा तत् साधनं स्यात् (1) न त्वेकस्य शास्त्रदर्शितधर्मस्यान्वये । एतच्च न क्वचित् 872 साधने कत्तुं शक्यमिति लोकाति' क्रान्ता स्थितिरेषा । (५५) अपि च (1) असम्बद्धस्य धर्मस्य किमसिद्धौ न सिध्यति । हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥५६॥ असम्बद्धस्य साधयितुमप्रवृत्तस्य धर्मस्याकाशगुणत्वादेः कृतकत्वाद्धेतोव्विपर्यासनादसिद्धौ सत्यां सिसाधयिषितं हेतुव्यापकमनित्यत्वं किं न सिध्यति । न हि व्यापकमन्तरेण व्याप्यं भवति । हेतुस्तस्य व्यापकस्य साधनायोक्तः किन्दुष्टः " शास्त्रापरिग्रहेण सिद्धिप्रतिबन्धात् । २ 'सहजः कर्णादिवत् । औपाधिकः स्वयं गुणदोषपरीक्षयाभ्युपगच्छतः । ५ आगममात्रेण । 8 उपहसति । * त्याजयितुमशक्यत्वात् । ६ अस्यायमागमो नास्येति ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy