SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ शब्दाप्रामाण्यचिन्ता शास्त्रोपदर्शिते विषय' द्वये प्रत्यक्षपरोक्षे रूप नैरात्म्यादौ तदा प्रमाणप्रवृत्त्या विशुद्धे निर्णीते सति पश्चादत्यन्तपरोक्षे स्वर्गादौ शास्त्रेण शास्त्राश्रयणेनानुमानं चिकीर्षोः सतः स हि कालोऽभ्युगम्य यदि शास्त्रबाधो न भवेत् । अतस्तदा शास्त्रेण बाधनं साध्यसाधनादरिष्यते । ( ५० ) तदपि कस्माच्छास्त्रबाधेष्यत इत्याह । ( 1 ) तद्विरोधेन चिन्तायास्तत्सिद्धार्थेष्वयोगतः । तृतीयस्थान संक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ ५१ ॥ तस्य शास्त्रस्य विरोधेन तत्सिद्धेष्वर्थेषु लिङ्गादिष्वसिद्धकल्पेषु गमकचिन्ताया अयोगतः । यस्मात् प्रत्यक्षपरोक्षार्थयोर्नागमाधिकारः तस्मात् तृतीयस्थानेऽतीन्द्रिये विषये विचारसंक्रान्ती शास्त्रपरिग्रहो न्याय्यः प्रकारान्तराभावात् । (५१) तत्रापि साध्यधर्मस्य नान्तरीयकबाधनम् । परिहार्य न चान्येषामनवस्थाप्रसङ्गतः ॥५२॥ ४३३ तत्र शास्त्रे परिग्रहेपि तदा साधयितुमारब्धस्य साध्यधर्मस्य यन्नान्तरीयकं सम्बद्धं यथा क्षणिकत्वस्य नैरात्म्यं तस्य बाधनं परिहार्यं । वस्तुतस्तादात्म्यादनयोनैरात्म्यबाधने क्षणिकत्वबाधनप्रसङ्गात् । न त्वन्येषां साध्यस्याकारणाव्यापकभूतानां धर्माणां बाधनं परिहार्यमनवस्थाप्रसङ्गतः । न हि शास्त्रदर्शितसम्भवधर्मव्याप्तिलिङ्गस्य दृष्टान्ते दर्शयितुं शक्यते येन कश्चिदागमाश्रयो हेतुरवतिष्ठेत । (५२) ननु शास्त्र'मनपेक्ष्य न वादः कर्त्तव्य इति वस्तुबलप्रवृत्तानुमानेपि शास्त्रापेक्षेत्याह । केनेयं सर्वचिन्तासु शास्त्रं ग्राह्यमिति स्थितिः । कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ ५३ ॥ सर्व्वासु परोक्षात्यन्तपरोक्षार्थचिन्तासु शास्त्रं ग्राह्यमिति केनेयं स्थितिः कृता (1) नैतदनुमन्यन्ते विद्वान्सः । इदानीमविदुषामस्मिन्नभ्युपगमेऽसिद्धान्तः सिद्धान्त " विषयास्त्रयस्तत्र प्रत्यक्षानुमानविषयौ प्राग्विचारेण विशोधनीयौ । तथा विशुद्धे पश्चाच्छास्त्रग्रहं चिकीर्षा । २ रूपाद्यक्षस्यान्यदनुमायाः । ५५
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy