SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ 86b प्र० वा० वृत्तौ ० (४ परिच्छेदः) तामिच्छामकार्यलिङ्गजां कार्येतरलिङ्गामनुमेयत्वेन वदन् परो व्यभिचारेण बाध्यते । न ह्यन्योऽकार्योऽन्यं न व्यभिचरतीति नियमोस्ति । अपि च साध्यस्यामित्यत्वस्यानन्तरीयकेऽर्थे आकाशगुणत्वादौ बाधितत्वेप्यन्यस्य साध्यस्य का क्षतिः । न ह्यनित्यत्वमाकाशगुणत्वनान्तरीयकं येन तदभावे तदपि न स्यात् । कृतकत्वन्त्वनि' त्वत्यताऽव्यभिचारीति तस्मान्नानुमानमनैकान्तिकं । (४७) ४३२ ३. शब्दाप्रामाण्यचिन्ता (१) शास्त्रविरोधोऽकिञ्चित्करः उक्त नागमापेक्षमनुमानं स्वगोचरे । सिद्ध ं तेन सुसिद्ध तन तदा शास्त्रमीक्ष्यते ॥ ४८ ॥ अनुमाविषये नेष्टं वाचः प्रामाण्य ( ३।३१० ) मित्यादिनोक्तं प्राक् । वस्तुबलप्रवृत्तमनुमानं नागमापेक्षं स्वस्य गोचरे साध्य इति । तस्मात् तेन वस्तुबलप्रवृत्तेनागमानपेक्षिणाऽनुमाने यत् सिद्धं सुसिद्धन्तत्तवा च न शास्त्रमीक्यते बाधित न वेति वस्तुबलप्रवृत्तानुमानेन तदपेक्षाभावात् । तदानुकाले शास्त्रस्यावाश्रयणात् । (४८) बादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः । उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥४९॥ वात्यागः स्याच्चेत् । न वादत्यागः सिसाधयिषितैकधर्मादपरस्य शास्त्रांभ्युपेतस्य तदा साघनोपन्यासका' ले साध्यतयाऽनभ्युपायतोऽस्वीकारात् । ननु शास्त्राभ्युपगमाद् यदा वादः क्रियते तदा शास्त्रार्यबाघनात् वादत्यागः स्यादेवेत्याह । शास्त्रस्याभ्युपाये 'ऽयम्विचार उपायः । ततस्तदा विचारकाले सन्तप्यभ्युपगमोऽनङ्गं शास्त्रार्थग्रहणे गृहीतस्य त्यागः स्यात् । न विचारात् प्राग् ग्रहणमभ्युपगमान्न्याय्यं । (४८) कदा तर्हि शास्त्रेण बाघेष्यते इत्याह । · तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् । चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥५०॥ " बस्तुबलप्रवृत्ते । * स्वीकारे १. विचार्यग्रहात् ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy