________________
स्वयंशब्दग्रहणफलम्
४३१ नानन्तरीयकत्वादिविरुद्धः स्यात् । प्रतिज्ञा विरुद्धा स्यात्। उपात्तो हेतुः वादिनानिष्टं शास्त्रेष्टं बाधत इत्येव यदि विरुद्धः तदा गन्धभूगुणतां बाधमानस्य कृतकत्वस्य शब्दे विरुद्धता स्यात् । शास्त्रष्टबाधकताया अविशेषात् । (४४)
अथ गन्धभूगुणताया साध्यत्वेनाप्रकृतेरप्रस्तुते तद्वाघनेपि शब्दे कृतकत्वं विरुद्धं नो चेत् सा, प्रकृतिरन्यत्राकाशगुणत्वेपि समा। न हि वादिना आकाशगुणत्वं साधयितुमिष्टं किन्त्वनित्यत्वं । अतोऽप्रकृतस्यास्य बाधने न विरुद्धः स्याद्धेतुः ।
अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् ।
अथ वादीष्टतां ब्रूयाद् धर्मिधमोदिसाधनैः॥४५॥ अथात्राकाशगुणत्वादौ धर्मी शब्दः प्रकृतः । तत्र शास्त्रार्थस्याकाशगुणत्वादेः साधनं तद्वाधने च विरुद्धता हेतोः। भूगुणत्वे तु गन्धो धर्म्यप्रकृत इति तद्बाधनेपि न विरोधः। नैष परिहारः। तथाहि न वादीष्टविपर्यासनेन दोष उक्तः। किन्तु शास्त्रार्थविरोधेन तथा च प्रकृतत्वमनुपयुक्तं। अथ वाद्यनिष्टतयाऽप्रकृतत्वं तच्चाकाशगुणत्वयोः समानं। अथाकाशगुणत्वस्य वादीष्टतां परो ब्रूयात धम्मिधर्मादिसाधनैः २। साध्यमिधर्मत्वात् तदेकदेशत्वाद्वाऽका शगुणत्वमिष्टं वादिनोऽनित्यत्ववदिति । (४५) ननु (1)
कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तैः। - बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥४६॥ कैश्चित् प्रकरणविवादादिभिरिच्छावादिनः कस्मिंश्चिद् धर्मे भवेत्। .. तैरेव च प्रकरणैः सा इच्छा गम्यते परेणापि। न तु तस्य धर्मिणो धर्म इत्येव वादिनेष्यते। ततो धमिधर्मत्वादिसन्दिग्धविपक्षव्यतिरेकित्वात् शेषवत् । स्वयमनिच्छतश्च वादिनः साधनस्य बलात् तवेच्छेयमिति यदुच्यते व्यक्तमिदमीश्वरचेश्टितमित्युपहसति । (४६) किञ्च (1)
वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते । अनान्तरीयके चार्थे बाधितेन्यस्य का क्षतिः॥४७॥
१ कृतकत्वादिरादिना। यो धर्मिणो विशेषः साध्यसमुदायकदेशविशेषो वा स साध्यः।