SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ _ प्र० का वृत्तो० (४ परिच्छेवः) उक्तमिष्टग्रहणस्य प्रयोजन ॥ .. (५) स्क्यंशब्दप्रहणफलम् स्वयं शब्दस्येदानी वक्तुमाह। एकस्य धर्मिणः शाले नानाधर्मस्थितावपि । साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयं श्रुतिः ।।४२॥ . एकस्य शब्दादेर्द्धर्मिणः शास्त्रे नानाधर्माणाममूर्त्तत्वानित्यताकाशगुणत्वादीनां 86a स्थितावभ्युपगमेपि वादिना आत्मनैव साधनोपन्यासकाले साधयितुमिष्टो धर्मः साध्यः स्यात् । नान्य इति स्वयं श्रु'तिराचार्येणोपात्ता। (४२) .. यदि पुनः (6) शाखाभ्युपगमादेव सर्वादानात् प्रवाधने। तकस्यापि दोषः स्याद् यदि हेतुप्रतिज्ञयोः॥४३॥ शास्त्रेणाभ्युपगमादेव सर्वेषां धर्माणामावानात् परिग्रहात् वादिना तत्र तेषु मध्ये ' एकस्यापि धर्मस्योपन्यस्तहेतुना बाधने हेतुप्रतिक्षयोविरुद्धता दोष उच्यते ॥(४३) यथा शहे शास्त्रष्टमाकाशाश्रयत्वं बाधमानस्य वादीष्टमनित्यत्वं साधयतोंकि मृतकत्वस्य विरुद्धत्वं प्रतिज्ञाविरोधो वाभिधीयते। कृतकं हि क्षणिकं । न च क्षणिकमुत्पादानन्तरं क्षणमप्यस्ति। ततः । कृतकत्वमाकाशाश्रयत्वबाधनं । शब्दनाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षतेः। हेतुविरुद्धोप्रकृतेनोचेदन्यत्र सा समा॥४४॥ तथा कृतकत्वात् शब्दस्य नाशे साध्य माने गन्धस्य : कृतकत्वान्नश्वरस्य भूगुणताया : पृथिव्याश्रिततायाः शास्त्रेष्टायाश्च क्षतेः। विपर्यासनात् हेतुः प्रय 'यदि तदापर श्लोकः। 'आकाशस्य नित्यत्वात् ताश्रितञ्च नित्यं स्यात् । तदनित्यत्वेन बाध्यते। शेषिककृता यथा शम्वे आकाशगुणत्वमिष्टं एवं गन्धे पृथिवीगुणत्वमपीति कोत्र विशेषो येनैकत्र हेतुप्रतिज्ञादोषो नान्यत्रेति भावः अप्रकृतत्वाच्चेदत्रापि - समान। अनेन वेदापौरुषेयवादिनं प्रत्युक्तमनित्यः शब्दः कृतकत्वात् बलादिवत् । गन्धेपि कृतकत्वावनित्यत्वे भूगणत्वक्षतेः। धर्मिणः
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy