________________
आत्मार्थत्वविवादे दोषः
सामान्यमेव तत्साध्यं न च सिद्धप्रसाधम् । विशिष्टं धर्मिणा तच न निरन्वयदोषवत् ||३९||
४२९
तदनित्यतादि सामान्यमेव साध्यं न विशेषो येनानन्वयदोषः स्यात् । नन्वनित्यतादि सामान्यं सिद्धमेव क्व' चित् साधने वैयर्थ्यमित्याह । न च सिद्धस्य क्वचित् सत्तामात्रेणानित्यत्वस्य प्रसाधनं । धर्मिण्ययोगव्यवच्छेदस्यासिद्धस्य प्रसाधनात् । न च धर्मिणाऽयोगव्यवच्छेदतो विशिष्टं तच्चानित्यतादि दृष्टान्ते निरन्वयदोषवत् (1) न च अयोगव्यवच्छेदेन धर्मिविशेषितस्य धर्म्यन्तरसम्बन्धाविरोधात् ॥ ( ३९ )
एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ । प्रत्याख्यातौ निराकुर्वन् धर्मिण्येवमसाधनात् ||४०||
एतेनेष्टस्य साध्यत्ववचनेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणावनन्वयानिराकुर्वन् चार्वाको यथा न शब्दानित्यत्ववान् शब्दो नानित्यशब्दवान् वा शब्द इति । न हि शब्दानित्यत्वेनानित्यशब्देन वा क्वचिद् घटादौ दृष्टान्ते कृतकत्वस्यान्वयोस्ति तत इष्टविपर्यासनाद् विरुद्धं कृतकत्वमिति स एवं वदन् प्रत्याख्यातः कथमित्याह । धर्मिणि शब्दे एवं धम्मिविशिष्टस्य धर्मस्य धर्माविशिष्टस्य वा. धर्मिणोऽसाधनादनित्यत्वमात्रस्य शब्द साध्यत्वेनेष्टत्वात् । अन्यथाऽनित्यशब्दवति शब्दे सिद्धेपि शब्दो नानित्यः स्यात् । यदि धर्ममात्रं साध्यं तदा समुदायः साध्यो न स्यात् । हेतोस्तदपवादो विरुद्धस्य न स्यादित्याह । धर्ममात्रस्य धर्मि साध्यत्वात्। (४०)
समुदायापवादो हि न धर्मिणि विरुध्यते ।
साध्यं यतस्तथा नेष्टं साध्यो धर्मोत्र केवलः ॥ ४१ ॥
समुदाय एव साध्यो हि यस्मात् तस्माद् विरुद्धस्य हेतोरिष्टसमुदाया 'पवादो न विरुध्यते । ननु समुदायस्य साध्यत्वेऽनन्वयदोष इष्टविघातो वा स्यादित्याह ( 1 ) तथा धर्मिधर्मसमुदायोऽन्यधर्मि सम्बन्धितया साध्यं यतो नेष्टं (1) तस्मान्नानन्वयो विरुद्धता वा । तथा ह्यत्र " शब्दादौ धर्मिणि धर्मोऽनित्यतादिः केवलः साध्य इष्टः । तस्य चान्वयोस्तीति न दोषः । ( ४१ )
5
१ विद्युदादौ ।
* न धर्मिणा सह समुदायसाधनात् । न हि शब्दे परः शब्दानित्यत्वसमुदायः साध्यः ततः तस्य निराकरणेपि न दोषः । आश्रयासिद्धिरन्यथा ।
४
॥०॥ स्वयं शब्दात् । स च द्वयोरेकाभावे समुदाय एव निराकृतः स्यात् ।