________________
४२८ . प्र. वा. वृत्ती० (४ परिच्छेदः)
तुल्यं नाशेपि चेच्छब्दघटभेदेन कल्पने । ... न सिद्धन विनाशेन तद्वतः साधनाद् ध्वनेः ॥३६॥
नाशेपि साध्ये शब्बघटयोः साध्यदृष्टान्तमिणोः सम्बन्धितया भेदेन' कल्पने शब्दसम्बन्धिनो नाशस्य घटेन्वयाभावादसाध्यत्वं । घटसम्बन्धिनश्च शब्देसम्भवा दसाध्यतेति तुल्यमिदमिति चेत्। न तुल्यं विनाशेन प्रध्वंसलक्षणेन सिद्धन निश्चितेन ध्वनेस्तवतो विनाशक्तः साधनाद्विनाशसामान्यं साध्यं सिद्ध केवलं तद्वत्ता शब्दस्य न सिद्धति साध्यते । यथा विनाशे सामान्येन सिद्धे सत्यसिद्धस्तद्वान् शब्दः साध्यते । (३६)
तथार्थान्तरभावे स्यात् तद्वान् कुम्भोपि तथान्तिरभावेऽभि व्यक्तचैतन्यस्वभावतया देहस्य घटात् वैजात्ये सिद्ध सति लहान मोपि सिध्येत्। न चैतत् प्रतिवादी बोधियितुं शक्यते। तेनाचैतन्यस्य भूसव्यतिरिक्तस्यैव स्वीकारात् । यदि पुनरचेतनस्वभावतया घटजातीयेनैव देहेन' सद्वितीयत्वं घटस्य साध्यते तदा सिध्यत्येव । तथाविधस्य सद्वितीयत्वस्य सिद्धत्वाद् विनाशवत्। किन्तु वादिनो नेष्टसिद्धिः। देहस्य चेतनस्वभावतयाऽसिद्धेः ॥
अनित्यता। विशिष्टा ध्वनिनान्वेति नो चेनायोगवारणात् ॥३७॥ अथ ध्वनिना स्वसम्बन्धितया विशिष्टाऽनित्यता दृष्टान्तं नान्वेतीति चेत् । नानन्वयदोषो विशेषणेनायोगस्यासम्बन्धस्य वारणात् ॥ (३७) .
द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः।
व्यवच्छेददियोगे तु वायें नानन्वयागमः ॥३८॥ दिविषो हि व्यवच्छेवो विशेषणेन दृष्टो वियोगापरयोगयोरयोगान्ययोगयोव्यवच्छेदात् । यथा चैत्रो धनुर्द्धरः पार्थो धनुर्द्धर इति। तत्र धर्मिणा विशेष
नायोगे वार्ये नित्यताया नानन्वयागमोऽनन्वयापत्तिनं भवति। शब्दोऽनित्यो न वेत्ययोगः शङ्कितो विशेषणेन व्यावय॑ते शब्दोऽनित्य इति। एवम्विधा चानित्यता नान्यसम्बन्धेन विरुध्यत इति नानन्वयो दृष्टान्ते ॥ (३८)
उक्तार्थसंग्रहमाह।
समानित्यता घटनित्यतेति। बटव्यक्त्या।
एवमर्थान्तरभावः सिद्धो नास्ति।