________________
आत्मार्थत्वविवावे दोषः
४२७ अथवेष्टस्य साध्यत्वाभावे पराश्चिक्षुरादयः संहतत्वादित्यत्रात्मार्थत्वस्यासंहतपारार्थ्यस्यासाध्यत्वात्। ज्ञानहेतुत्वेन संहतपारार्थस्या बौद्धेनापीष्टे। साध'- 8sa नवैफल्यमेव वा स्यात् ।(३३)
सद्वितीयप्रयोगेषु निरन्वयविरुद्धते ।
एतेन कथिते साध्यं ; एतेन साध्यत्वेनेष्टस्यानन्वयदोषदर्शनेन सद्वितीयप्रयोगेषु चा ा ककृतेषु यथाभिव्यक्तचैतन्यशरीरलक्षणपुरुष सद्वितीयो घटः। अनुत्पन्नत्वात् । कुड्यवदिति शरीरमेवाभिव्यक्तचैतन्यं पुरुषो नात्मा कश्चित् परलोकी तेन सद्वितीयत्वं (ससहायत्त्वं) घटस्य साध्यत इति प्रयोगफलं। तत्र च निरन्वयविपद्धते कथिते। तथा ह्यभिव्यक्तचैतन्यदेहलक्षणपुरुषेण सद्वितीयत्वं साध्यं । तेन च कुड्येन्वयो न दृष्ट इति निरन्वयता (1) घटस्य तु कुड्येऽन्वयो दृष्ट इति तेन सद्वितीयत्वसाधनात् विरुद्धता स्यात्।
(व्यक्त्यसिद्धौ न सामान्यम्)
सामान्येनाथ सम्मतम् ॥३४॥ तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति ।
वाच्यशून्य प्रलपतां तदेतज्जाड्यवर्षिणतम् ॥३५॥ __ अथ सामान्येन' विशेषमनुल्लिख्य सद्वितीयत्वं साध्यं कुड्ये सद्वितीयत्वमात्रेणान्वयात्। एवमपि तत्सामान्यमेव न सिध्यति प्रतिवादिनः। घटादभिव्यक्तचैतन्यस्वभावतयाऽर्थान्त राभावात् । अर्थान्तरत्वासम्भवात्। देहस्यानाप्तावर्थान्तरत्वेनासिद्धौ द्वयोभिन्नयोरन्यतरसद्वितीयत्वं सामान्यं स्यात्। न हि घटः स्वरुपेणैवान्यतरसद्वितीयः । देहन्तु नाभिव्यक्तचैतन्यलक्षणपुरुषमिच्छति प्रतिवादीति भेदाभावात् । तेनापि नान्यतरसद्वितीयत्वसिद्धिः । यतश्च न घटस्य स्वरूपेणैव सद्वितीयत्वसम्भवः । भेदाधिष्ठानत्वात् तस्य, नापि देहेनान्वयाभावात् । ततो वाच्यशून्यत्वमर्थशून्यत्वमन्यतरसद्वितीयत्वं प्रलपतां परलोकापवादिनां तदेतदन्यतरसद्वितीयत्वसाध्यवचनं जाड्यस्य वणितं चेष्टितं ॥ (३४,३५)
१ घटयोरन्यतरेण । 'प्रत्यक्षविषयत्वादनुमानमुक्त। । अन्यतरार्थान्तरभावः सामान्यं साध्यं । " न हि गोव्यक्त्यभावे सामान्यं ।