________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
उक्तोऽनुक्तोपि वा हेतुः वस्तुत एव तस्य विरोद्धा प्रतिघातकस्तदा तत्र शास्त्रार्थबाधने वादिनः किन्दूषणं न किञ्चित्। हि यस्मात् तस्य वादिन उक्तिदोषेण स कृतकत्वादिहेतुः शास्त्रस्य शास्त्रार्थस्याकाशगुणत्वादेः बाधनो बाधको न जातः॥(६०)
बाधकस्याभिधानाच्चेद् दोषो यदि वदेन सः। '
किन्न बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति ॥६१॥ शास्त्रार्थबाधकस्य हेतोरभिधानात् वादिनोपि दोषश्चेत् यदि तं हेतुं न वदेत् स वादी। तदा किमसौ हेतु: शास्त्रार्थ न बाधेत। वस्तुतस्तद्विरोधित्वादवश्यं बाधते ततश्च स वाद्यकुर्वन्नयुक्तं केन कारणेन दुष्यति पराजितः स्यात् ॥(६९)
ननु यदि दुष्टहेतु वचनेपि न वादिनो दुष्टता। तदाऽसिद्धादिवचनेपि न दोषः स्यादित्याह।
अन्येषु हेत्वाभासेषु स्वेष्टस्येवाप्रसाधनात् ।
दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् ।।६२॥ अन्येष्वसिद्धादिषु हेत्वाभासेषु वाद्युक्तेषु स्वेष्टस्य वादीष्टस्यैवाप्रसाधनाद् वादी दुष्यति। व्यर्थस्य साध्यसाधनानुपयुक्तस्य साधनस्याभिधानात्'। अत्र कृतकत्वे तु वाद्युक्ते वाञ्छितस्यानित्यत्वस्य प्रसाधनान्न वादी दुष्यति। शास्त्रार्थे तु वाद्यनिष्टे बाध्यमाने शास्त्रमेव दुष्टं भविष्यति ॥(६२) यद्यपि स्वेष्ट"स्य तेन साधनं तथापि शास्त्रार्थस्य बाधनमिति दुष्ट एवेत्याह।
यदि किश्चित् क्वचित् शास्त्रे न युक्तं प्रतिषिध्यते ।
ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥६३॥ क्वचिद् वै शे षि का दिशास्त्रे निर्दिष्टं यदि किञ्चिदाकाशगुणत्वादि बाध्यमानत्वादयुक्तं। तावताऽन्यदनित्यत्वादियुक्तमपि कृतकत्वहेतुना ब्रुवाणः प्रति
पादयन् प्रतिषिध्यते शास्त्रार्थबाधनात् विरोधो 'पन्यासेनेति व्यक्तमियं राजकुल87b स्थितिः। राजशासनस्यैव बलप्रवृत्तस्य युक्तायुक्तविचार' णाबहिर्भावात्। (६३)
किञ्च (1)
सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् । सर्वत्र तेन सुच्छन्नेयं साध्यसाधनसंस्थितिः ॥६४॥
'प्रयोगवैफल्येन।
अयुक्तं त्वयोक्तमिति।