________________
आत्मार्थत्वविवादे दोषः
४२५ कारकरणेनासाधनस्य ग्रहणं ततश्चाक्षुषत्वाद्यसिद्धमपि साधनत्वेन शब्देभिधीयमानं न साध्यं। दृष्टशब्देनार्थोक्तस्यापि ग्रहणं। ततोऽनुक्तमप्यात्मार्थत्वं संघातत्वाच्चक्षुरादेः सांख्यस्य साध्यं स्वयं शब्देन वाद्यभ्युपगतस्य ग्रहणं । ततः शास्त्राभ्युपगतस्याकाशगुणत्वादेः शब्दे धर्मिणि वादिनाऽनित्यत्वे साधयितुमारब्धे- 84b ऽसाध्यता। अल्पवक्तव्यतयाऽर्थोक्तस्य तावत् साध्यतां समर्थयितुमाह। वादिनोऽनुक्तोपीच्छया व्याप्तः साध्यो मतः। आत्मार्थवत् । यथा आत्मास्ति न वेति विवादे तत्साधनाथ सांख्ये न पराश्चिक्षुरादयः संघातत्वात् शयनाश (?स)नाद्यगवत् । इत्युक्तस्य साधनस्यात्मार्थत्वमनुक्तमपि साध्यमिच्छाविषयत्वात् ॥ (२९) ।
नन्विष्टशब्देनानिष्टस्य सर्वस्य निरासात्। शास्त्रोपगतस्यापि वाद्यनिष्ठस्यासाध्यत्वं सिद्धं। तनिष्फलं स्वयंपदमित्याह। व्यवच्छेदफलत्वाच्छब्दा-1 नामिष्टशब्दात् (1)
सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् ।
वृत्तौ स्वयंश्रुतेनाह कृता चैषा तदर्थिका ॥३०॥ सर्वस्य वादिनोऽन्येन शास्त्रादिना इष्टस्य निवृत्तौ सिद्धायामपि शास्त्रेणेष्टं वादिनोपीष्टमेवेति शङ्कास्थानस्य विप्रतिपत्तिविषयस्य वारणं फलं स्वयंश्रुतेनाचार्यों वृत्तावाह। स्वयमिति शास्त्रानपेक्षमभ्युपगमन्दर्शयति । एषा स्वयंश्रुतिस्तदर्थिका विप्रतिपत्तिनिराकरणार्या कृता॥ (३०)
(४) आत्मार्थत्वविवादे दोषः । य एवेच्छया विषयीकृतः स (1)
विशेषस्तव्यपेक्षत्वात् कथितो धर्मधर्मिणोः।
अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् गतिः॥३१॥ विशेषो धर्ममिणोः सम्बन्धी व्यपेक्षत्वात् । इच्छारचितात् सम्बन्धात् साध्यत्वेन कथितः। चक्षुरादीनां संहतविषयं पारार्थ्यमिति धर्मस्य विशेषः साध्यः। परार्थस्य साध्यत्वात् परार्थाः सन्तश्चक्षुरादयोऽसंहतार्था इति धर्मिणो विशेषः साध्यः। चक्षुरादयोऽनेकाणुसञ्चयात्मिकाः क्रमेणैककालञ्च संहताः। ज्ञानादि तु
'यदि वादिनेष्ट एव साध्यस्तदा धर्मविशेषविपरीतसाधनादीनां विरुद्धानामसम्भव एवेत्याह।
५४