________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
उपक्षेपपरिहारौ । तावेव विडम्वनाऽयुक्ततया । अत एवाह ( 1 ) असम्बद्धा । तथा हि साभासत्वस्य विपर्यये बाधक' प्रमाणभावादेवाहेतुत्वादसम्बन्धः पूर्व्वपक्षः । ततस्तमनुमत्य प्रत्यक्षेणानेकान्ततापादनमशोभनं । पुनर्वचनात्मत्वं विशेषणं परोक्तमप्रतिक्षिप्य दूषणाभासेनानेकान्ततापादनं चायुक्तं । तदेव हि हेतोव्विशेषणमुपयुक्तं (1) द्विपक्षाद्धेत्ं व्यावर्त्तयति न च वचनात्मत्वाऽसाधनत्वयोः कश्चिद्विरोधो येनासाधनाद् वचनात्मत्वनिवृत्तेव्विशेषणसाफल्यं स्यात् । तथा ह्येष विपक्षादव्यावर्त्तक' हेतुविशेषणोपन्यासो न न्याय्य इति वण्णितं प्राक् वेदनित्यतासिध्यर्थं - मध्ययनपूर्व्वकमित्युक्ते भारताध्ययनेनानेकान्ततामापादितां प्रतिषेद्धुं वेदाध्ययनत्वे सतीति विशेषणं मी मां स केनोपन्यस्तं तदपि करण (कृति) पूर्व्वकं भारताध्ययनवद् स्यात् न कश्चिद् विरोधः । ततो विपक्षादव्यावर्त्तकं विशेषणमयुक्तमित्युक्तं प्राक् ।। (२७)
४२४
(३) पक्षलक्षण करणे प्रयोजनम्
ननु यदि पक्षवचनमसाधनं सामर्थ्यंगम्याभिधेयञ्च तदाचार्येण पक्षलक्षणं कृतं किमर्थमित्याह (1)
गम्यार्थत्वेपि साध्योक्तेरसंमोहाय लक्षणम् । तच्चतुर्लक्षणं रूपनिपातेषु स्वयं पदैः ॥२८॥
साध्यव्याप्तपक्षवचनसामर्थ्याद् गम्यार्थत्वेपि साध्योक्तेः पक्षवचनस्य लक्षणमुक्तमसंमोहाय विप्रतिपत्तिनिराकरणेन साध्यप्रतिपत्त्यर्थं । तथा ह्यात्मार्थत्वं साध्यमपि सांख्या असाध्यमाचक्षते परार्थत्वमसाध्यमपि साध्यमिति सन्ति विप्रतिपत्तयः । तच्च साध्यं चतुर्लक्षणमुक्तं ।' स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः ) पक्ष इत्यत्र लक्षणचतुष्टयप्रतिपादकं रुपनिपातेषु स्वयं पबैर्यथाक्रमम् ( 1२८ ) असिद्धासाधनार्थोक्तत्वाद्यभ्युपगतग्रहः ।
अनुक्तोपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः ॥२९॥
असिद्धस्य साधनस्यार्थोक्तस्य वाद्यभ्युपगतस्य ग्रहः । असिद्धस्वभावत्वात् साध्यस्य न सिद्धस्य ग्रहणं । ततः सिद्धं चाक्षुषत्वादि रूपादेर्न साध्यं । निपातैव
' वचने साभासत्वासाधनत्वयोरविरोधात् ।
२
'विरुद्धाव्यभिचार्युपक्षेपादिशोभनं स्यात् सन्दिग्धं व्यतिरेकाद् भावनं न्याय्यं ।
३ तत्प्रतिक्षेपोपायमाह । * युक्तं तु विशेषणं वेदचिन्तायां अपौरुषेयं ।