________________
पक्षचिन्ता :
४२३
.
स्यादेतत् १ (1)
सिद्धोक्तः साधनत्वाच्च परस्यापि न दुष्यति । · इदानीं साध्यनिर्देशः साधनावयवः कथम् ॥२६॥ परस्यापि २ सिद्धोक्तेः सिद्धार्थप्रतिपादकत्वात्। साधनत्वाच्च प्रतिज्ञात्वमिष्टं । अतो हेत्वाभासादि प्रतिज्ञात्व प्रसङ्गेन न दुष्यति। हेत्वाभासाद्यसि- 84a द्धत्वादसाधनमसाधनत्वाच्च न प्रतिज्ञा। इदानी मस्मिन्नभ्युपगमे साध्यनिर्देशोऽसिद्धत्वात् साधनावयवः कथं (1) न हि प्रतिज्ञार्थः सिद्धः । तदर्थमेव साधनोपन्यासात् । असिद्धश्च न साधनं हेत्वाभासवत् ॥ (२६)
या च स्व यूथ्यानां पूर्वपक्षपरिहारोक्तिः (1) . साभासोक्याधुपक्षेपपरिहारविडम्बना ।
- असम्बद्धा तथा ह्येष न न्याय्य इति सूचितम् ॥२७॥
पक्ष वचनं साधनं साभास (साभासार्थ)त्वादिति चेत् न प्रत्यक्षेणानेकान्तात् प्रत्यक्षं साभासमपि न कस्यचित् प्रमाणस्य साधनांवचनात्मत्वे सति साभास त्वात् साधनत्वमिति चेत् । न दूषणेना नेकान्तात् । दूषणं सांभासवचनात्मत्वेपि न साधनमिति सापि साभासोक्तिरादिर्यस्य तौ साभासोक्त्यादी
१ सिद्धो हि शब्दादिकः साध्यधर्मी। अन्यथाऽश्रयासिद्धो हेतुरपक्षधर्मत्वात् स्यात् कथं साधकः।
२ योपि प्रतिज्ञासाधनमाह। तस्यापि हेत्वाभासवचने न प्रतिज्ञात्वं । । यद्यसिद्धाभिधानाद्धत्वाभासा न साधनं तदा।
४ न्यायमुखटीकाकारादेः। ' 'प्रयोगस्तु पक्षवचनं साधनं साधनकाले उपादानात् हेतुदृष्टान्तवत् । पूर्वपक्षः।
परिहारः। तेनैव पर आशडक्यते। 'प्रत्यक्षमवचनात्मकं। 'परिहारः। साधनकाले दूषणमप्युपादीयते न च तत्साधनं ।
१०अत्र यदि परः प्रदूषयति अदूषणत्वे सति साभासोक्तिहेतुस्तदा नैवानेकान्तः। एवं यत्र यत्र न्या य मखटीकाकृता व्यभिचारा उच्यते तत्र तत्र परेण विशेषणमुच्यत इति परंपरा। विरुद्धाव्यभिचार्युपक्षेपे च पक्षवचनं न साधनमसिद्धोक्तेरसिद्धदृष्टान्तवचनवत् । इत्युक्त एव बाधितः स्यात् ।