________________
४२२
• प्र० वा० वृसी० (४ परिच्छेदः)
त्वाव्यभिचारि कृतकत्वं शब्दे वर्त्तमानमनित्यतां तत्र गमयत्येवेति निष्फलं १ पक्षवचनं । (२२)
तस्मात् ( 1 )
(२) प्रतिज्ञा न साधनाक्यवः
अनुक्तावपि पक्षस्य सिद्धेरप्रतिबन्धतः । त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्य नतोदिता ||२३||
पक्षस्यानुक्तावपि साध्यसिद्धेरप्रतिबन्धतः अविरोधात् त्रिषु पक्षधर्मतादिषु रूपेष्वन्यतमस्य एकस्यानुक्तिर्न्यनतोबिता साघनदोषो न तु पक्षाद्यवचनं । (२३)
यदि च प्रतिज्ञा साधनमिष्यते तदा साध्यनिर्देशः प्रतिज्ञेति प्रतिज्ञालक्षणव्याप स्यात् । असिद्धस्य हेतोर्दृष्टान्तस्य चासिद्धस्य साध्यत्वं साधनत्वञ्चास्त्रीति प्रतिज्ञार्थं स्यात् । यस्य तु मते प्रतिज्ञा न साधनं (1)
साध्योकिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते ।
• साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ॥२४॥
योक्तं साध्यनिर्देशं प्रतिज्ञां वदन्ननन्तरोक्तैर्दोषैर्न युज्यते । साधनाविकृतेः साधनत्वेनाधिकारादेव प्रतिज्ञार्थस्य हेत्वाभासेष्वप्रसङ्गतः (२४)
३
यस्माद् (1)
अविशेषोक्तिरप्येकजातीये संशयावहा ।
अन्यथा सर्व्वसाध्योक्तः प्रतिज्ञात्वं प्रसज्यते ॥२५॥
अबिशेषोक्तिः ' सामान्याभिधानमप्येकजातीये संशयावहा तत्त्वार्थशङ्कोपाधिका न सर्व्वत्रेति न्यायः । ततोऽसाधनमेव साध्यं प्रतिज्ञा । नत्वसिद्धहेतुदृष्टान्तादिकं तस्य साघनत्वेनेष्टत्वात् । अन्यथा यद्येवं नाभ्युपगम्यते तदा सर्व्वस्याः साध्योक्तेर्घटं करोतीत्यादेः प्रतिज्ञात्वं प्रसज्यते । ज्ञापकहेत्वधिकारात् तत्साध्यस्यैव प्रतिज्ञात्वं न कारकहेतुसाध्यस्येति चेत् । यद्येवमसाधनभूतसाध्यनिर्देशः प्रतिज्ञा न साधन निर्देश इति सिद्धं । (२५)
' द्वितीयकुतकशब्दवदुच्यमाने निग्रहस्यानं ।
सामनस्य विजातीयत्वात् । साध्य एव न साधने ।
२ पक्षस्यासाघनत्वे गुणमाह ।
• साधनासाधनविभागं विनोक्तिः ।
• असिद्धस्ये करणात् ।