SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पक्षचिन्ता विपक्षोपगमेप्येतत् तुल्यमित्यनवस्थितिः ॥१९॥ एवन्तर्हि विपक्षस्य साध्यविरुद्धस्य धर्मस्योपगमे' पराभिप्रायेण नित्यशब्द इति साध्यनिर्देशकृते पार्श्वस्थानां तथा संशयनिरासार्थं यत्कृतकं तदनित्यं यथा घट: कृतकश्च शब्द इति पुनर्वादिनवोच्यते। तदा नित्यत्वप्रतिज्ञायास्तदनित्यत्वाव्यभिचारिकृतक'त्वहेतुप्रवर्तकत्वं तुल्यमिति नित्यत्वप्रतिज्ञाप्यनित्यप्रतिज्ञावत् 83b साधनं स्यादित्यनवस्थितिः साधनावयवानां ॥ (१९) यतश्च पक्षवचनस्य साध्यसिद्धौ साक्षात् पारम्पर्येण वा सामर्थ्यं नास्ति ततः(।) अन्तरङ्ग तु सामर्थ्य त्रिषु रूपेषु संस्थितम् । तत्र स्मृतिसमाधानं तद्वचस्येव संस्थितम् ॥२०॥ अन्तरङ्ग सामयं तु शब्दोऽवधारणे भिन्नक्रमश्चेति त्रिष्वेव पक्षधर्मतादिषु रूपेषु संस्थितं। तत्र त्रिरूपलिङ्गे साध्यसाधनशक्तिस्मृतेः समाधानमारोपण तद्वचसि त्रिरूपलिङ्गप्रतिपादकवचन एव संस्थितं। अतस्तदेव पारम्पर्येण साध्यसिद्धेरङगत्वात् प्रमाणन्न पक्षवचनं ॥ (२०) ननु (1) अख्यापिते हि विषये हेतुवृत्तेरसंभवात् । विषयख्यापनादेव सिद्धौ चेत्तस्य शक्तता ॥२१॥ उक्तमत्र; अख्यापिते प्रतिपादिते साधनस्य विषये साध्ये हेतो सेरेव ह्यसम्भवात् तस्य पक्षवचनस्य विषयख्यापनादेव साध्यस्य सिद्धौ पारम्पर्येण शक्ततेति चेत् । (२१) उक्तमत्र संशयजिज्ञासयोरपि साधनप्रवर्तकत्वात् साधनत्वप्रसङ्ग इति। किञ्च (1) विनाप्यस्मात् कृतकः शब्द ईदृशाः। सर्वेऽनित्या इति प्रोक्तप्यर्थात् तन्नाशधोभवेत् ॥२२॥ अस्मात् पक्षवचनाद् विनापि कृतकः शब्द ईदशा ये कृतकास्ते सर्वेऽनित्या इति पक्षधर्मताव्याप्तिवचने प्रोक्तेप्यर्थात् तस्य शब्दस्य नाशधीर्भवेत्। अनित्य 'वादिना। । उत्पादनं। न चैवं तस्मान हेतुप्रवर्तकत्वेन प्रतिज्ञायाः साधनत्वं ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy