________________
प्र० वा० वृत्तौ० (४ परिच्छेदः)
पारम्पर्येणापि पक्ष ' वचनमलं समर्थं न साध्यसिद्धौ । साध्यस्यैव केवलस्याभिधानात् । न हि पक्षवचसा साधकं किञ्चिदुच्यते साध्यमांत्रस्यैवाभिधानात् । त्रिरूपस्य हेतोर्व्वचो वचनन्तु स्वयं साक्षात् सिद्धावशक्तमपि ( 1 ) शक्तस्य त्रिरूपलिङ्गस्य सूचकं प्रतिपादकमिति साधनमुचितं ॥ ( १७ )
४२०
ग. (दिग्नागस्य) पक्षवचनमसाधनत्वेनेष्टम्
नन्वाचार्यस्य पक्षवचनमसाधनत्वेनेष्टमिति कथं ज्ञायत इत्याह । हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥ १८ ॥
तोरर्थः साध्यः स विषयोस्येति हेत्वर्थविषयः तस्वेन साध्यार्थीपदर्शकत्वेन तस्य पक्षवचनस्य साध्यसाधनं प्रत्यशक्तस्योक्तिरीरिता निर्दिष्टाचार्येण ( 1 ) "तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत" इत्यनेन ग्रन्थेन । ततो ज्ञायते पक्षवचनमसाधनमिष्टमाचार्यस्येति ।
ननु तस्य पक्षवचनस्यापि साध्यसिद्धौ शक्तिरस्ति । तत्साधकस्य हेतुवचनस्यप्रवर्त्तनात् । नह्यनुद्दिष्टेर्थे साधनप्रस्तावः । ततः साधनप्रस्तावनाहेतुत्वेन पक्षवचनस्य साधकत्वमस्तीति चेत् । एवं ( 1१८ )
तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः ।
तस्य साध्यसंशयेन जिज्ञासा तस्याञ्च सत्यां साधनमुच्यत इति जिज्ञासोः पुंसः संशयो जिज्ञासा च प्रकरणस्य साधनप्रस्तावस्याश्रयो निमित्तमिति भवेत् साधनं पक्षवचनवत् ।
ननु संशयजिज्ञासे प्रतिपाद्यप्रवत्तिते पक्षवचनन्तु वादिप्रवर्तितं तत्कथं तत्समुदायस्य साधनस्य वादिना निर्देशसंभव इत्याह ।
'हेतुवचोवत् पारंपर्येण स्यादौपचारिकं साधनं तत्तु साध्यस्यासिद्धस्याभिधायकमिति नोपचरितोपि साधनं उक्तञ्च ।
" तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत इति ।
२ 'परस्य दशावयवं वाक्यं । तत्र जिज्ञासासंशयप्रयोजनशक्यप्राप्तिसंशयम्युदासाः पञ्च प्रवृत्यङ्गानि । प्रतिज्ञादिपञ्चावयवाः । प्रवृत्त्यङ्गरनेकान्तमाह साधनवचनाश्रयत्वेन संशयादीनामपि साधनत्वं स्यात् ।