________________
४८. प्र० वा. वृत्ती० (४ परिच्छेदः)
परफल्पितः साधनैः प्रसनः क्रियते यथा सामान्यस्य परोपगतानेकवृत्तित्वाद् अनेकत्वमापाद्यते न त्वयं पारमार्थिको हेतुस्त्ररूप्याभावात्। यद्ययं न हेतु: ' तदा किमर्थमुच्यत इत्याह । तयोः साध्यसाधनयोः सम्बन्धाद् व्याप्यव्यापकभावात् स्फारिताबेकस्य साध्यस्यापायेऽन्यस्य साधनस्य हानये । यथा चानेक' सामान्य तस्मान्नानेकवृत्तीति विपर्ययप्रयोगे साध्याभावे साधनाभावः कथ्यते। प्रसङ्गविपर्ययोत्र मौलो हेतुः साध्यसाधनव्याप्तिग्राहकप्रमाणस्मारकस्तु प्रसङ्गे प्रयोग इत्यर्थः । भिन्नदेश कालादिष्वनेकासु व्यक्तिषु वृत्तस्य तदतद्देशत्वादिविरुदधर्माध्यासादनेकत्वसिद्धरनेकवृत्तत्वानेकत्वयोर्व्याप्तिसिद्धिर्बोद्धव्या। (१) . उक्तं स्वदृष्टग्रहणस्य साफल्यं ॥ .
(२) अर्थग्रहणफलम् अग्रहणस्येदानीं वक्तव्यं । अदृष्टार्थप्रकाशनमित्यत्र सूत्रे यदुपात्तं (1)
यंग्रहणं शब्दकल्पनारोपितात्मनाम् ।
भनिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः ॥१३॥ .. सल्लाह शाब्बेन । कल्पनया चारोपित आत्मा येषां पक्षसपक्षान्यतरत्वादीनां तेषामलिङ्गत्वप्रसिचर्य बोद्धव्यं। कस्मात् पुनः कल्पितस्या लिङ्गत्वमित्याह । अर्थात् वस्तुभूताल्लिङ्गावर्षस्य साध्यस्य सिद्धितः॥ (१)
कल्पनागमयोः कर्तुरिच्छामात्रानुवृत्तितः।
वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥१४॥ 'कल्पनाया आगमस्य शब्दस्य च कर्तुः पुरुषस्येच्छामात्रस्यानुवृत्तितोनुरोषात्। वस्तुनश्चान्यथाभावात् । कर्तुरिच्छानुवृत्तेस्ताभ्यां शब्दकल्पनाभ्यां कृता हेतवो व्यभिचारिणो नैकान्तिकाः। (१४) ..
उक्तमर्थग्रहणप्रयोजनं॥ स्वदृष्टार्थप्रकाशनशब्देन त्रिरूपलिङ्गवचनमिष्टं । न पक्षवचनमपीति वक्तव्यं ॥
'पक्षधोपसंहार एषः। "उमयसिद्धो हेतुः सूचितः प्रमोपपत्तिः।
या सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वादाकाशवत् ॥ नियोऽनित्यो - बासमः पासपमान्यतरत्वात्परमाणुवद् घटवद्वा।