SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ परार्थानुमानलक्षणम् ( बिग्नागस्य ) यस्य वस्त्वसंश्रयाद् यथावस्तुप्रवृत्तिनियमाभावात् ॥ ( ९ ) अपि च ( 1 ) सन्नथ ज्ञानसापेक्षो नासन् ज्ञानेन साधकः । सतोपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गतिः ॥१०॥ सन्नर्थो ज्ञानसापेक्षः साध्यसाधकः प्रतीतो यथा धूमादिः । नासन्नर्थो ज्ञानेन प्रतीतिमात्रेण साधकः साध्यस्य यथा कल्पितो धूमः । अथाचैतन्यम्वस्तुतोस्त्येव तद् यथा कथञ्चित् परस्मै ' प्रतिपादनीयं । अतः पराभ्युपगतो हेतुः क्रियत इत्याह । सतोप्यचैतन्यस्य वस्त्वसंश्लिष्टा वस्तुभूतलिङ्गाप्रतिबद्धा गतिरसङ्गत्याऽसतः प्रतीत्या सदृशी सम्यक् प्रतीतत्वाभावात् । अन्येत्वसद्गत्या दोषवत्प्रतीत्या सदृशीति व्याचक्षते (1) तेषां सतोप्य वस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं नातिशेते। अप्रत्ययत्वादिति विनिश्चयग्रन्थेन सह एकवाक्यता न स्यात् ॥ ( १० ) किञ्च ( 1 ) लिङ्गं स्वभावः कार्यं वा दृश्यादर्शनमेव वा । सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ||११|| ४१७ लिङ्गं साध्यार्थसम्बद्धं नान्यत् व्यभिचारात् । तच्च स्वभावः कार्यं दृश्यादर्शनमनुपलब्धिरेवान्यस्य प्रतिबन्धाभावादित्युक्तं । तदुत्पत्यादिकं यदि त्रिषु हेतुष्वन्तर्भूतं तदा वस्तुतः परमार्थतः सिद्धं प्रतिपाद्यस्य किं कस्मादात्मनः सांख्यस्य वादिनोऽसिद्धं । उत्पत्तिमत्वादिस्वभावहेतुः स्यात् । स च धर्मिग्राहकात् प्रमाणादन्यतो वा शिशपात्ववत् कृतकत्वादिब्रदर्थान् प्रतिवादिन इव वादिनोपि सिध्येत् । (११) अथ त्रिविधे हेतौ नान्तर्भवति उत्पत्यादि तदा (1) परेणाप्यन्यतो गन्तुमयुक्तं; परेण प्रतिवादिनापि त्रिविधाद्धेतोरन्यतो हेतोरचैतन्यं गन्तुं प्रत्येतुमयुक्तं (1) यदि पराभ्युपगमसिद्धमसाधनं तदा प्रसङ्गहेतुरहेतुः स्यादित्याह । परकल्पितैः प्रसङ्गो द्वयसम्बन्धादेकापायेन्यहानये ॥१२॥ 1 २ उभयसिद्धमस्तु । वृक्षं ग्राहयति । ३ पराभ्युपगतेन दूषयित्वा प्रमाऽनन्तर्भावमाह । ५३
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy