________________
82b
प्र० वा० वृत्तौ ० (४ परिच्छेदः)
ननु तथापि नाकस्मिको बुद्धिसुखाद्यचैतन्यविषयस्य निश्चयः । तत्साक्षा
साध्यसाधनभावावधारणञ्चावश्यक
४१६
त्कारिप्रत्यक्षतत्साधनयोगानुष्ठानयोः १
र्त्तव्यं। तन्निश्चयमन्तरेण योगानुष्ठानायोगात् । तथा च (1)
प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसंभवैौ । साधनैः साधनान्यर्थशक्तिज्ञानेस्य तान्यलम् ॥७॥
*
प्राकृतस्यार्व्वाग्दिर्शनस्य सतो यैः साधनैः सुखाचैतन्यादिविषयं तद्ग्राहि प्रत्यक्ष—तत्साधनयोः सम्बन्धञ्च निश्चित्य प्रवृत्तस्योपाये प्रतिपत्तुरनुष्ठानस्य । तत्फलस्याक्षस्य प्रत्यक्षस्याचैतन्यादिविषयग्राहिणः सम्भवौ भवतः ( 1 ) तानि साधनान्यर्थस्योपायाभ्यासस्य शक्तेरचैतन्यग्राहिप्रत्यक्षजनिकाया ज्ञाने कर्त्तव्ये - ऽस्य प्रतिपाद्यस्यालं समर्थानि । ततस्तान्येव साधनान्युच्यन्तां किं स्वयमदृष्टसाध्य प्रतिपादनसामर्थ्येो त्पत्तिमत्वादिनोक्तेन ॥ (७)
स्यादेतत्। प्रत्यक्षस्याचैतन्यादिविषयस्य योगाद्यभ्यासेन सह साध्यसाधनसम्बन्धविप्रकृष्टत्वात् सामान्याकारेणापि न प्रतीयते ततोस्यानुपदर्शनमित्याह । विच्छिन्नानुगमायेपि सामान्येनाप्यगोचराः । साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥८॥
येपि विच्छिन्नो विप्रकृष्टोऽनुगमः सम्बन्धो येषां ते प्रत्यक्षतदुपायादयः सामान्येनाविशेषाकारेणाप्यगोचरास्तेष्वर्थेष्विदं साधनमिदं साध्यमिति च साध्यसाधनचिन्ता काचन नास्ति । ततोऽवग्दर्शनस्याबुद्धिविषयीकृतयो रूपयोरुपायोपेययोरेकत्रानुष्ठानादपरत्र निष्पादनमिति कुतः ॥ ( ८ )
किञ्च (1) अप्रमाणकादागमादिच्छामात्रेण प्रतिपाद्यो हेतुं कुर्व्वन् पुनरिच्छया तमेव परिहरन् हेतुतदाभासयोरिच्छाधीनतां स्वीकुर्यादित्याख्यातुमाह । पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ ।
लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥९॥ पुंसामभिप्रायवशादिच्छानुरोधात् तत्त्वा' तत्त्वयोर्हेतुतदाभासत्वयोर्व्यवस्थिताविष्यमाणायां हेतुतदाभासौ लुप्तौ स्यातां अव्यवस्थितत्वात् तस्य पुरुषाभिप्रा
१ ज्ञात्वा हि लिङ्गस्तदुपायोनुष्ठीयतेऽन्यथा भावनानुपपत्तेः ।
२ यथास्माभिर्द्वितीयपरिच्छेदे उक्तं परो मोक्षेऽविद्या (सत्काय) तृष्णाभ्यांक्षेपि जन्मेति सम्बन्धः शून्यतादृष्टिस्तयोः प्रतिपक्ष इति यथेह तृष्णया प्रवृत्तिरविद्याप्रेरणया । यत्रैव स्कन्धेऽविद्यादयस्तत्रानारोपितेऽविद्याशून्यमिति सम्बन्धः ।