________________
परार्थानुमानलक्षणम् ( दिग्नागस्य )
तावदवयवत् आगमोपि पुरुषस्य सहजसम्बन्धेन' सम्बद्ध:' । नापि युक्त्युपपन्नतयो'पाधिना प्रत्यक्षानुमानवत् सम्बन्धः । तथा हि प्रमाणेनोत्पत्तिमत्वादिलिङ्गजेनानुमानेनागमप्रतिपादितस्य सुखादिचैतन्यस्य बाधनात् बाध्यमान आगमः हेतुः । स कथमागमसिद्धो येन युक्तिसम्वादोपाधिनापि पुरुषेण सम्बन्धमनुभवेत् । (४) स्यादेतत्। सुखादीनामचैतन्यं तेनैवागमेन प्रदेशान्तरे दर्शितमतोऽबाध्यत्वात् प्रमाणादस्मात् साधनविधिर्युक्त इत्याह ।
तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ।
तदन्योपगमे तस्य त्यागांगस्याप्रमाणता ||५||
तस्माच्चैतन्यात् प्रतिपादिताद् विरुद्धस्याचैतन्यस्याभ्युपगमस्तेन चैतन्यप्रति - पादकेनैव चागमेन कथम्भवेत् । सम्भवे वा विरुद्धार्थाभिधायित्वेनाप्रमाणादागमासिद्धिरयुक्तैव (1) आगमप्रतीतेनोत्पत्तिमत्त्वादिना । तस्मादागमोक्तं चैतन्यादन्यस्याचैतन्यस्योपगमे स्वीकारे वा प्रतिवादिना क्रियमाणे तस्यागमस्य त्यागांगस्याप्रमाणताऽभ्युपगता स्यात् ( 1 ) यदैवागमप्रामाण्यस्य बाधके हेतावाद्रियते तदैव तत्र संशयितः। न चाप्रमाणाद्धेतुसिद्धि: ।। ( ५ )
किञ्च (1)
तत् कस्मात् साधनं नोक्तं स्वप्रतोतिर्यदुद्भवा । युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥६॥
४१५
अयम्वादी तावत् स्वयमप्रतीतमेवाचैतन्यं परस्मै प्रतिपादयति । न च साधनमन्तरेणैव प्रतीतिः । ततः प्रतिपादयितुः स्वस्य प्रतीतिश्चैतन्यविषया यस्मात् साधनादुद्भवो यस्याः सा यदुद्भवा । तत्साधनं स्वागमादिकं कस्मात् प्रतिपाद्यं प्रति नोक्तं। स्वयं प्रतिपन्नसामर्थ्यमेव साधनं वक्तुमुचितं । तथा निर्युक्तिकस्यागमस्या - प्रामाण्यात् यया युक्त्योपपन्न आगमः साधनत्वेन ग्राह्यो वादिना सा युक्तिः परस्य प्रतिपाद्यस्यापि किन्न साधनं येन तत्परित्यज्यान्यदप्रमाणसिद्धमुत्पत्त्याद्युच्यते । (६)
अथ योगबलजेन प्रत्यक्षेण सुखादीनामचैतन्यं प्रतीतं न तदन्यथा प्रतिपादयितुं परस्य शक्यत इति परोपगतं साधनमुच्यते ॥
१ तादात्मा (? त्म्या) भाव उक्तः ।
२ तदुत्पत्तेः। ३ अस्येदमिति । ४ अज्ञातं ममेति वचने उपहसनीयः स्यात् । ६ तदुत्पत्तेः । • कपिलऋषिणा ।
" सांख्यस्य ।
82a