________________
४१४
प्र० वा० वृत्तौ० (४ परिच्छेदः)
सिद्धः । तावतैव हेतुरिति मन्यन्ते तस्य परमतस्य क्षेपाय प्रतिषेधायात्मदृश्वचः अदृष्टवचनं सूत्रे न प्रतिवादिमात्रसिद्धस्य हेतुत्वं किन्तूभयसिद्धस्यैवेत्यर्थः॥ (१)
ख. अनुमानविषये नागमस्य प्रामाण्यम्
न चागमात् प्रतिवादिनोपि साधन सिद्धिर्युक्तेति वक्तुमाह । अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥२॥
अनुमानस्य वस्तुबलप्रवृत्तस्य विषये यस्मादनुमानज्ञानमुत्पद्यते ( 1 ) स च त्रिरूप हेतु: ( 1 ) तत्र प्रतिपाद्ये वाच आगमात्मिकायाः प्रामाण्यं नेष्टमर्थप्रतिबन्धाभावादित्युक्तं ।
किञ्च ( 1 ) प्रमाणान्तरसम्वादात् परीक्षितस्य प्रमाणोपपन्नस्यागमार्थस्य परिग्रहात् स्वीकारान्नेष्टं वचनप्रामाण्यं । यदि वचनमित्येव प्रमाणन्तदा प्रतिज्ञापदादेव साध्यस्य सिद्धेर्निष्फलं हेतुदृष्टन्तादिवचनं स्यात् । प्रमाणान्तरसम्वादापेक्षा च न भवेत्। सम्वादज्ञानस्यैवार्थभावाभावानुविधायित्वात् तस्मिन्नागमार्थे प्रामाण्यं। वचनस्य तु विपर्ययात् । यदि त्वागम इत्येव प्रमाणं (।) तदा प्रमाणान्तरसम्वादापेक्षा न स्यात् । हि यस्मात् । अस्मिन्नागमार्थे प्रमाणप्रतिपादितत्वान्निश्चितेऽनुमानं न प्रवर्त्तते ( 1 ) यदि ह्यागमार्थः सन्दिह्येत तदा तन्निश्चयार्था प्रमाणान्तरवृत्तिरपेक्ष्येत । (२)
बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलन्ततः ॥ ३ ॥
यदि चागमस्य सुखादिचैतन्यप्रतिपादकस्य बाधनाय साधनस्योत्पत्तिमत्वादेः सा ख्ये न परं बौद्धं प्रत्युक्तिः ततः कारणात् स आगमोऽ प्रमाणं । तदा । न हि प्रमाणस्य बाधो युक्तः । तत आगमाप्रामाण्यात् तेनागमेन साक्षात् पारंपर्याभ्यां सिद्धमुत्पत्तिमत्वादि साध्यं चाचैतन्यमखिलमिदमसिद्धं ॥ (३)
ग. प्रमाणेन बाध्यमानस्यागमस्य न सिद्धि:
तदागमवतः सिद्धं यदि कस्य क आगमः । बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ॥४॥
स च सुखाद्युत्पत्तिमत्वप्रतिपादक आगम: (च) तदागमः तद्वतस्तत्सम्वन्धिनो बौद्धस्य सिद्धमुत्पत्तिमत्त्वादिलिङ्गमिति चेत् । कस्य पुरुषस्य क आगमः सम्बन्धी । न