SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः' परार्थानुमान स्वार्थानुमान' व्याख्याय परार्थानुमानं व्याख्यातुमाह (1) 81b "तत्र ‘परार्थानुमानं२ स्वदृष्टार्थप्रकाशनमित्याचायिलक्षणं। स्वेन दृष्ट: स्वदृष्टः। स्वदृष्टश्चासावर्थश्चेति त्रिरूपो हेतुः। तस्य प्रकाशनम्वचनं अनुमानहेतुत्वादित्यर्थः। १. परार्थानुमानलक्षणम् (दिमागस्य) (१) तत्र स्वदृष्टग्रहणफलम् क. परमतनिरासाय ननु त्रिरूपलिङ्गाख्यानमित्येवास्तु किं स्वदृष्टग्रहणेनेति शङकायां परमतनिरासार्थतामस्य दर्शयितुमाह। परस्य प्रतिपाद्यत्वात् अदृष्टोपि स्वयं परैः। दृष्टसाधनमित्येके तत्क्षेपायात्मग्वचः॥१॥ परस्य परार्थानुमानेन प्रतिपाद्यत्वात् साधन वादिना स्वयमदृष्टोपि प्रमाणेन परैः प्रतिवादिभिरागमाद् दृष्टसाधनं लिङ्गमित्येके सां ख्याः। ते हि सुखादीनामुत्पत्तिमत्वादनित्यादचेतनत्वं रूपादीनामिव बौद्धं प्रत्याहुः । न ह्यसत उत्पत्तिमत्वं सतश्च निरन्वयविनाशोऽनित्यत्वं हेतुः सांख्यसिद्धः। बौद्धस्य पुनरागमात् 'चतुर्थो व्याख्यायते। तत्र सम्बन्धमन्तरेण वाक्यार्थावृत्तेरिति तृतीयपरिच्छेदं व्याख्यायानेनोत्तरसम्बन्धं कथयन् प्रतिपर्तृसुखार्थमन्त्यपरिच्छेवे सर्वमेव शास्त्रशरीरमनुक्रमेण वृत्तिकृत् कथयति "अनुमानमि"त्यादि। [तत्रैव] –परार्थमनुमानं तु।स्वपापकाहानम् । २ वादिप्रतिवादिभ्यामिति प्रकरणात्।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy