________________
४१२
प्र० वा. वृत्तौ० (३ परिच्छेदः) तत्कार्यतैवैषामिति चेत्। एवं तर्हि सा शब्दप्रवृत्तिरेकत्र वस्तुनि परस्परविरुद्धार्था कथम्भवेत् । (३३७)
यदि यथा' वस्त्वेव शब्दस्तदा वस्तुत एकरूपेण शब्दे नित्यः किमयमनित्यो वेत्यादि शब्दसन्दर्भो न भवेत्।
वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीयकाः।
प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ॥३३८॥ तेन प्रतिबन्धाभावेन वस्तुभिः सह नान्तरीयका आगमा प्रतिपत्तुरर्थं शब्दात् . प्रतिपद्यमानस्य कथञ्चिन्न सिध्यन्ति । तत् कुतस्तेभ्य आगमार्थनिश्चयः। (३३८)
तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ।
तेनासन्निश्चयफलाऽनुपलब्धिर्न सिध्यति ॥३३९॥ यस्मात् प्रवर्त्तमानादागमान्नास्त्यर्थसिद्धिस्तस्मात् तस्यागमस्य निवृत्त्यापि भावस्याभावो न सिध्यति । तेन प्रमाणत्रयनिवृत्तिलक्षणाप्यनुपलब्धिरर्थानामसन्निश्चयफला न सिध्यति । ततो युक्तमुक्तं "सदसन्निश्चय फला नेति स्याद् वाप्रमाणतेति। सद्वयवहारप्रतिषेधे तु प्रमाणमेव (1) दृश्यानुपलब्धिस्तु सद्व्यवहारप्रतिषेधेऽसद्वयवहारसाधने चाधिकृते व्यवस्थितेत्यवस्थितं ॥ (३३९)
प्राचार्य म नो र थ न न्दि कृतायां वार्तिकवृत्तौ तृतीयः परिच्छेदः ॥
१ वाच्यार्थस्य गमको हि तज्जन्यस्तत्स्वभावो वा स्यादित्याह शब्दस्त्विच्छायत्तो न बहिरधीनः (1) सति वाच्ये तदर्शनं दृष्टेविवक्षा। ततो वचनं परम्परा ( ?)
आगम्यते तेन। शब्दानां वस्त्वसम्बन्धेन। ४ सर्वविषयत्वादागमस्य सति वस्तुन्यविसम्वादेनावृत्तेस्तन्निवृत्तिलक्षणानुपलब्धिरभावसाधनमित्ययुक्तमेव परस्य। विनापि वस्त्वागमप्रवृत्तेः सर्वविषयत्वञ्च निरस्तमप्रस्तुतावचनात् ।