________________
मीमांसकमतनिरासः
४११
त्रैरूप्येणानुमानेन ' च विरुद्धमग्निहोत्रस्नानादेः पापशमनं वदत् । १ न हि रागादिप्रभवो धर्मस्तदपनयनमन्तरेण स्नानादेनिवृत्तिमर्हति। एवम्विधविसम्वादभाजमर्थं वदत् शास्त्र विरोधं २ प्रामाणिकमसमाधाय अपरिहृत्य प्रवृत्तिकामोचितं शास्त्रार्थमनु गुणोपायं पुरुषार्थलक्षणञ्चाप्रदर्य स जर न्मी मां स क एकदेशसम्वाददर्शनात् सत्यार्थ प्रतिजानानो धाष्टर्येन बन्धकी साक्षादृष्टव्यलीका स्वपति स्वशीलप्रामाण्योद्भावनेन भ्रान्तमावेदयन्तीं जयेत्। (३३२-३३४) किञ्च (1)
सिध्येत् प्रमाणं यद्येवमप्रमाणमथेह किम् ।
न ह्येकं नास्ति सत्यार्थ पुरुषे बहुभाषिणि ॥३३५॥ यद्येवं दृष्टैकदेशसम्वादस्यावयवत्वादन्यदपि प्रमाणं सिध्येत्। अथेह न्याये किमप्रमाणं शास्त्रं भविष्यति। न हि बहुभाषिणि पुरुषे सत्यार्थमेकं वचो नास्ति किन्त्वस्त्येव। तेनैव दृष्टान्तेन तद्वचनं प्रमाणं स्यात् । (३३५)
नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः।
न च तद्वथतिरिक्तस्य विद्यतेव्यभिचारिता ॥३३६॥ नायं ध्वनिर्वस्तूनां स्वभावः। कार्यम्वा यस्माद् वक्तरि ध्वनिर्भवति । न हि वस्तुनः स्वभावोन्यत्र धर्मिणि वर्तते। कार्यम्वाऽन्यतो भवितुमर्हति । न च तद्वयति रिक्तस्य कार्यस्वभावाभ्यामपरस्याव्यभिचारिता विद्यत इति निवेदितं । (३३६) स्यादेतद् (1)
प्रवृत्तिर्वाचकानाञ्च वाच्यदृष्टिकृतेति चेत् ।
परस्परविरुद्धार्थी कथमेकत्र सा भवेत् ।।३३७॥ वाचकानां शब्दानां प्रवृत्तिाच्यदृष्टिकृता अभिधेयदर्शनागता ततः परंपरया
१ आगमाश्रयानुमानबाधितमेतदित्याह। शक्यविचारे वस्तुनि ।
पुरुषप्रवृत्तिनिमित्तं। ४ सर्वः पुरुषः सर्वत्रार्थे प्रमाणं स्यादित्याह। ५ विना वाच्यं न शब्दवृत्तिश्चेत्।
'पदानां सङ्गतिः सम्बन्धः। शक्यसाधन उपायोनुगुणः। अभ्युदयादिः पुरुषार्थ इति शास्त्रधर्मा प्रदर्श्य विरोधमसमाधाय चात्यन्तप्रसिद्धसत्यार्थतामात्रेण प्रज्ञाप्रकर्षेणापि दुरवगाहेपि सत्यार्थतां साधयन् दुश्चारिणी जयेत् । “सा स्वामिना परेण सङ्गता त्वमित्युपालब्धाऽह। पश्यत पुंसो वैपरीत्यं धर्मपत्न्या प्रत्ययमकृत्वा स्वनेत्रबुबुदयोः प्रत्येति। जरत्काणग्राम्यकाष्टहारेण प्रार्थिताऽसङ्गता। रूपगुणानुरागेण किल मन्त्रिमुख्यदारकं कामयेहमिति तुल्यं दृष्टविरोधस्यातिपरोक्षेऽविसम्वादानुमानेन" (स्ववृत्तौ)।