________________
४१०
प्र० वा. वृत्तौ० (३ परिच्छेदः) न ह्येतादृशस्य हेतोः साध्यप्रतिबन्धोस्ति विपर्ययबाधकप्रमाणादिति विपञ्चितं प्राक् ।। (३३१)
ख. वेदप्रामाण्यघोषणा जैमिनेर्धाष्र्टयम् दृश्यते च बहुतरविषये विसम्वादो वेदस्य कथमेकसत्यतया सर्वत्र तथात्वं । तथा २ च (1)
नित्यस्य पुंसः कर्तत्वं नित्यान् भावानतीन्द्रियान् । ऐन्द्रियान्विषमं हेतुं भावानां विषमां स्थितिम् ॥३३२॥ निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् । विरुद्धमागमापेक्षणानुमानेन वा वदत् ॥३३३॥ विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः।
सत्यार्थ प्रतिजानानो जयेद् धाष्टंथन बन्धकीम् ॥३३४॥ परैरनाधेयविशेषस्य पुंस आत्मनः क्रमजन्मसु कर्मादिषु ' कर्तृत्वं वदच्छास्त्रं। तथा नित्यान् भावान् दिक्कालाकाशादीनर्थक्रियारहितान् सतो ' वदत् । वस्तुतोऽतीन्द्रियान् गुणकर्मसामान्यादीन् ऐन्द्रियान् ६ प्रत्यक्षान् वदत्। तथा भावानां विषमं हेतुं प्राग जनकं वदत्। तथा विषमां स्थिति निस्प (? प) नानां भावानामाश्रयवशेन ' स्थिति वदत्। निवृत्तिञ्च विषमां स्वतोऽनश्वरस्वभावा नामन्यकृतां निवृत्तिं वदत्। अन्यद्वा १० वस्तु व्यस्तगोचरं प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यां निरस्तावकाशं वदत्। आगमापेक्षेणागमसिद्धलिङ्ग
१ “यस्यादर्शनमात्रेण व्यतिरेकः प्रदीत" (३।१३) इत्यादिना। २ शक्यपरिच्छेदेपि विषये प्रमाणविरोधादयुक्तत्वमेवाह। ३ तत्फलभोक्तृत्वं।
४ वददिति सर्वत्र योज्यं त्रिभिः श्लोकैरत्र सम्बन्धः। “सुखदुःखादिसम्वित्तिसमवायस्तु भोक्तृता"। तन्न नित्यानां कार्यकरणत्वस्य निरस्तत्वात् ।
५ अक्षणिकस्य क्रमयोगपद्यार्थक्रियाविरोधने वस्तुधर्मातिक्रमादयुक्तं तत् । तिदयुक्तमनध्यक्षस्याध्यक्षत्वविरोधात्।
" अर्थक्रियाः प्रागजनकं पश्चात् सहकार्यपेक्षया जनकं तदयुक्तं नित्यस्याविशेषात् ।
संश्च सर्वनिराशंसो भावः कथमपेक्षते परं। 'विनाशस्याहेतुत्वोक्तेः। १० अन्यदप्यभावादिकं सदित्याह।