________________
मीमांसकमतनिरासः
४०९ यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः।
द्योतयेत् तेन सङ्केतो नेष्टामेवास्य योग्यताम् ॥३२९॥ यत्र पुरुषस्य स्वातन्त्र्यमिच्छायास्तत्र नियमो नाम कः सङ्गतः। तेनेच्छाधीनत्वेन संकेतो नेष्टामेव योग्यतामुद्द्योतयेत् । अनभिमतामपि व्यञ्जयेदित्यर्थः। तदेवमपौरुषेयत्वमागमलक्षणं ब्रुवाणा मी मां स काः प्रतिक्षिप्ताः। (३२९)
(२) b. बृद्धमीमांसक(जैमिनि)मतनिरासः
क. वेर्दैकदेशसंवादित्वे न सर्वस्य प्रामाण्यम् ४संप्रति बृद्ध मी मां स कानां मतं दूषयितुमुत्थापयति ।
यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः।
वाक्यं वेदैकदेशत्वादन्यदप्यपरोऽब्रवीत् ॥३३०॥ । यथा वैदिकं वाक्य"मग्निहिमस्य भेषजमि"ति सत्यं शीतनोदनत्वेन वह्वः प्रमाणसिद्धत्वात् तथाऽन्न्यदपि वाक्य"मग्निष्टोमेन जुहुयात् स्वर्गकाम” इत्यादि (1) वेदैकदेशत्वात् सत्यमित्यपरो मी मां स को ऽब्रवीदुक्तवान् (1) किल शब्दोऽक्षमायां। (३३०)
रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् ।
शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् ॥३३१॥ ईदृशमनुमानं शेषवदनैकान्तिकं व्यभिचारित्वान्यायविदाचार्य दिग्नागे न प्रतिक्षिप्तं रसवत् तुल्यरूपत्वात् । स्वादितफलेन तुल्यरूपत्वात् फलान्तरस्य तादृग् रसानुमानवत्। एकभाण्डान्तर्गतत्वात् दृष्टपाकतण्डुला''नुमानवत्। 8ra
१ संकेते। २ अनियतत्वेन। ३ वैदिकशब्दस्य।
४ तदेवमपौरुषेयत्वं नागमलक्षणमित्युक्त्वा एकदेशाविसम्वादनमागमलक्षणं दूषयितुमाह। यस्मात् सत्यं तन्न दूष्यमिति परः
विशेषस्य पक्षीकरणात् साध्यमाह। यत्र बौद्धस्य विप्रतिपत्तिरेकदेशे
तदवितथमिति।
हेतुः सामान्य प्रतिज्ञार्थतानिरासाय। वृद्धः चक्षुर्दोषोपहतत्वात् । 'नैयायिकशेषवदनुमानव्यभिचारमुद्भावयता (प्रमाण) समुच्चये। ५० अस्वादितं तुल्यरसमिति। ११ एकभाण्डे पचनात्। अदृष्टा अपि तण्डुलाः पक्वा इति साध्यं ।