________________
प्र० वा० वृत्तौ० (३ परिच्छेदः)
सर्व्वत्रार्थे योग्यस्य शब्दस्य एकार्थद्योतेने नियमः कुतो जात: ( 1 ) पुरुष - श्चेन्नियामको न भवति । स्यादेतत् (1) प्रतिनियता एवार्थास्तेषां न ते पुरुषेण नियम्यन्ते । एवमपि १ ज्ञाता वा अतीन्द्रियाः प्रतिनियता अर्थाः केन पुरुषेण रागादिमता विवक्षाया (:) प्रकाशकात् वचनात् प्रतिपादनादृते ( 1 ) न हि वेदेषु कर्स्याचिद् विवक्षास्ति (1) तदवगतिमन्तरेण च प्रतिनियतार्थता न शक्या बोद्धुं । न हि शब्दाः स्वयं स्वार्थनियमं कथयन्ति संकेतमन्तरेण ( 1 ) स च पौरुषेयः । न चार्थनियमावगमं विना संकेतकरणं अर्थनियमप्रतीतिश्च विना संकेतं नास्तीति व्यक्तमितरेतराश्रयत्वं । (३२६)
४०८
f. अपि च (1)
विवक्षानियमे हेतुः सङ्केतस्तत्प्रकाशनः ।
अपौरुषेये सा नास्ति तस्य सैकार्थता कुतः || ३२७॥
विवक्षार्थस्य नियमे हेतुः संकेतः तत्प्रकाशनोऽर्थनियमबोधनः । अपौरुषेये च • वेदे सा विवक्षा नास्ति पुरुषप्रयोज्यत्वात् तस्याः । ततस्तत्प्रसाध्या सा एकार्थता वेदस्य कुतः । ( २२७ )
अथ (1)
स्वभावनियमेन्यत्र न योज्येत तया पुनः ।
सङ्केतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः || ३२८||
स्वभावतः शब्दाः क्वचिदर्थे नियता स्तदा स्वभावनियमे ऽन्यत्रार्थे वाचकत्वेन तया विवक्षया न योज्येत पुनः । न हि स्वभावेन प्रतिनियत विषयोऽन्यथा कर्तुं शक्यते । संकेतश्च निरर्थः स्यात् स्वभावप्रतिनियमे सति न हि चक्षुरिन्द्रियं रूपग्रहणप्रतिनियतं तत्र सङ्के 'तमपेक्षते । सङ्केताद् वाचकताया व्यक्ताविष्यमाणायां नियमः कुतः ( 1 ) अयमेवास्य शब्दस्यार्थ इति नियमो न युज्यते पुरुषाधीनसङ्केतापेक्षायां । ( ३२८) तथाहि ( 1 )
पुरुषातिशयानिष्टः ।
" तथापि तं ज्ञातुमशक्तः पुरुषः । ३ न विवक्षातः । ४ स शब्दो यथेष्टं सम्वादितं तुल्यरसमिति । ५ चक्षुरिव रूपे ।
संकेतापेक्षप्रतीतयस्तु स्वप्रतीत्यर्थसंकेतितराजचिह्नवत् ।
• वैदिकार्थे निसर्गसिद्धः संकेतेन व्यज्यत इत्याह ।
- स्वभावविशेषस्य ।