________________
आप्तचिन्ता
प्रसिद्धचैव शब्दार्थनिश्चये विपरीतार्थकल्पनायाः शङ्कोत्पादिता । यस्मान्नानार्थवृत्तित्वं शब्दानां गवाक्षप्रभृतीनां तत्र प्रसिद्धौ दृश्यते ( 1३२३ ) C. तथा ( 1 )
יך
अन्यथासम्भवाभावात् नानाशक्तेः स्वयं ध्वनेः ।
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ॥ ३२४॥ नानाशक्तेरनेकार्थप्रतिपादनयोग्यस्य ध्वनेः स्वयमात्मनाऽन्यथासम्भवस्य एकार्थप्रतिपादन योग्यतासम्भवस्यासम्भवात् । अवश्यमर्थान्तरशङ्कया भाव्यं । कथमित्याह । नियामकमपश्यतामनेकार्थस्य शब्दस्य एकवृत्तिनियमकारणमपश्यतां पुंसां । (३२४)
d. किञ्च (1)
४०७
एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ।
अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् || ३२५||
स्वयमर्थप्रतिपादनशून्यो नेता नभिमतार्थद्योतकत्वेन प्रतिपादयन् कर्तुर्न 8ob भिद्यते । तस्याप्येवं व्यापारत्वात् । यथा केनचित् कश्चन पन्थानं पृष्ठ आह । नाहं जाने किन्तु स्थाणुरेष वक्ति (1) अयं मार्ग इति । अन्यः पुनः प्रत्याह ( 1 ) अहं स्वयं ब्रवीमि (1) अयं मार्ग इति ( 1 ) तयोरेवं वादिनोः प्रतिपादकत्वस्य भेदः परीक्ष्यतां (1) एको निरभिप्राय' वचनं वक्तृत्वेन व्यपदिशति । अन्यस्तु नेति वचनवैदग्ध्य' मेवानयोभिद्यते नोपदेशप्रवृत्तिनिवृत्ती । तथा स्वयमर्थं प्रतिपादयतोपि वेदार्थविशेषाभिधायिनोऽभिदधत् कर्त्तव वाचकतायाः । ( ३२५ )
e. अथ तदर्थप्रतिपादने योग्या एव शब्दाः । नन्वेवं (1)
सर्व्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः । ज्ञाता वातीन्द्रियाः केन विवक्षावचनादृते ॥ ३२६॥
. साध्यार्थादन्यत्र वृत्तिरन्यथा । तदसम्भवो यस्तस्याभावादिति द्वौ निषेधौ सम्भवान्यथापि ।
यत एव तस्मादज्ञातार्थशब्देष्वप्रमाणकार्थारोपन्निश्चित्य व्याचक्षाणो जैमिनिस्तद्व्याजेन स्वमतमेवाहेत्यर्थं दर्शयन्नाह ।
३ वैदिकशब्दान्... वैकत्वे नियमः ।
8 पाटलिपुत्रस्य ।
* मार्गोपदेशसामर्थ्यशून्यस्थाणुव्याजेन मार्गमाह ।
स्थाणोः । • जडस्य प्रतिपत्तिमान्द्यादन्यत्र विशेषो नानयोः ।
2