________________
४०६
प्र० वा० वृत्तौ (३ परिच्छेदः)
च नास्तीति केनापि दृष्टं स्यात् स्यादयमर्थविवेकः । तद्दर्शी तु रागादिमत्वात् कश्चिन्नेष्ट इति नास्ति विपरीतकल्पनानिरासः । ( ३१९ )
न च लोकप्रसिद्धानुसाराद् वेदार्थव्यवस्था । तथा हि ( 1 ) * स्वर्गीर्वश्यादिशब्दव दृष्टोऽरूढार्थवाचकः ।
शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना ||३२०|| स्वर्गोर्वश्यादिशब्दश्चारूढार्थवाचको दृष्टः । मनुष्यातिशायिपुरुपविशेषनितो ऽतिमानुषसुखाधिष्ठानो नानोपकरणः स्वर्गः । तत्स्थाऽप्सरा उर्व्वशी ति प्रसिद्धो लोकवादः । तमुल्लंघ्य दुःखेनासम्भिन्ना निरतिशया प्रीतिः स्वर्गः । उर्व्वशी चारणिः पात्री वेत्यप्रसिद्धार्थकल्पनेति । शब्दान्तरे वग्निहोत्रादिषु तादृक्षु सर्व्वार्थयोग्येषु तादृश्येवाप्रसिद्धार्थैव कल्पनास्तु न्यायस्य तुल्यत्वात् । ( ३२० )
किञ्च (1)
प्रसिद्धश्च नृणां वादः प्रमाणं स च नेष्यते ।
ततश्च भूयोर्थगतिः किमेतद् द्विष्ठकामितम् ||३२१ ॥
5
प्रसिद्धश्च नृणाम्वाद एव न त्वन्यथा काचित् । स च पुरुषप्रवत्तित्वात् प्रमाणं नेष्यते भवता । भूयः पुनस्ततो जनवादादर्थस्य गतिरिति किमेतत् द्विष्ठकामितं । लोकवादोऽप्रमाणत्वात् द्विष्ठः संप्रति काम्यते इति व्यक्तो विरोधः । ( ३२१) अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम् । प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् || ३२२||
अथ लोकस्य प्रसिद्धिमुल्लंध्य श्वमांसभक्षणाद्यर्थकल्पने न निबन्धनमस्ति । ननु प्रसिद्धेरप्रमाणत्वात् तस्या ग्रहे" कि निबन्धनं विचारकस्य न किञ्चित् । ( ३२२)
किञ्च (1)
उत्पादिता प्रसिद्धचैव शका शब्दार्थनिश्चये । यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ॥ ३२३||
१ वेदवादिना कृतो ।
२ पौरुषेये नायं दोषः संप्रदायसम्भवात् । लोकसंकेतप्रसिद्धशब्दानुविधानात् । शब्दानामनेकार्थत्वेपि । पुरुषोंपयोगिनमेवागमार्थं चतुः सत्यं निश्चिन्वन्ति सौगता न प्रवादमात्रं वृद्धस्येत्यतोप्यदोषः ॥ एतत् त्रयं वेदेनेति त्याज्यन्तदित्याह ।
३ प्रदेशान्तरे वन्हौ घृतहवनमुक्तं ततो निश्चय इत्यपि न तस्याप्यसिद्धार्थत्वात् । श्वमांसकल्पनैवास्तु । ४ प्रसिद्धिग्रहोप मा भूत् ।