________________
आप्तचिन्ता
४०५ (ग) परपक्षे दोषाः a. तथा (1)
यद्यत्यन्तपरोक्षेर्थेऽनागमज्ञानसम्भवः ।
अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् ॥३१६॥ यद्यत्यन्तपरोक्षेर्थे स्वर्गसम्बन्धादौ जैमि न्या देरनागमस्यागमनिरपेक्ष' स्य ज्ञानस्य सम्भवः । तदाऽतीन्द्रियार्थदर्शी कश्चिदस्तीत्यभिमतं भवेत् । ततस्तत्प्रतिक्षेपो न युक्तः । (३१६)
यदि तु न कश्चिदतीन्द्रियार्थदर्शी तदा (1) म स्वयं रागादिमानार्थ वेत्ति वेदस्य नान्यतः। ___ न वेदयति वेदोपि वेदार्थस्य कुतो गतिः ॥३१७॥
स्वयं रागादिमान् पुमान् वेदस्याथं न वेत्ति न चान्यतः३ अन्यस्यापि रागादिमत्वेऽज्ञानत्वात्। वेदोपि स्वार्थं न " वेदयति ततश्च कुतो वेदार्थस्य गतिः। न कुतश्चिदिति पुरुषा एव यथाप्रतिभं कल्पयेयुः। (३१७)
5 तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । - खादेच्छवमांसमित्येष नार्थ इत्यत्र का प्रमा॥३१८॥
तेना"ग्निहोत्रं जुहुयात् स्वर्गकाम” इति श्रुतौ वेदवाक्ये "श्वमांसं खादेदि"त्येष नार्थ इत्यत्र का प्रमा। इत्यपि कल्पयितुं शक्यत्वात् ।(३१८)
b. प्रसिद्धो लोकवादश्चेत्तत्र कोतीन्द्रियार्थदृक् । __अनेकार्थेषु शब्देषु येनार्थोंयं विवेचितः ॥३१९॥
अग्निहादिसमर्थः तस्मिन् घृतादिप्रक्षेपश्च हवनमिति प्रसिद्धो लोकवादः ततो नान्यार्थकल्पनेति चेत्। तत्र लोके रागादिमति कोऽतीन्द्रियार्थदृगस्ति येनानेकार्थेष्वनेकार्थाभिधानयोग्येषु शब्देष्वयमभिमतो र्थो विवेचितो वाच्यतया विशेषणव्यवस्थापितः । यदि दाहकद्रव्ये घृतप्रक्षेपस्य स्वर्गेण सम्बन्धः श्वमांसभक्षणेन
१ परोक्षे। अनुमानस्याध्यक्षपूर्वत्वात्। ३ न हन्धनाकृष्यमाणोन्धोवगच्छति वर्म। ४ अज्ञातार्थत्वेन वेदस्य। ५ क्वचिदप्यर्थे प्रत्यासत्तिविप्रकर्षरहितायां। ' अनुमानस्याप्यध्यक्षपूर्वत्वात्। • अयमों वेदस्य नान्य इति विभक्तो।