________________
४०४ ' प्र० वा. वृत्तौ (३ परिच्छेदः)
अयमर्थोऽस्य शब्दस्यायं नेति न तावच्छब्दाः स्वयं वदन्ति। तस्मात् पुरुषरयमर्थः कल्प्यः। ते च रागादियुक्ता नावधारणपटवः। (३१२)
स एकस्तत्त्वविनान्य इति भेदश्च किंकृतः।
तद्वत् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथं न वः॥३१३॥ अथ रागिष्वपि कश्चि ज्ज मि न्या दिर्जानात्येव। तत्रैकस्त त्वविदन्यो नेति भेदश्च किंकृत एषः। रागि त्वाविशेषात् सर्व्व एवाज्ञः प्राप्तो न वा कश्चित् । अथ पुरुषत्वसाम्येपि जैमिन्यादिरतीन्द्रियार्थदर्शित्वाद् वैदिकशब्दानामतीन्द्रियार्थसम्बन्धवेत्ता कल्प्यते (1) तदा पुंस्त्वे सत्यपि कश्चिदन्योपि ज्ञानी ज्ञानातिशयवान् कथमप्यभ्यासादिना तद्वज्जैमिन्यादिवत् । कथम्वो मीमांसकानां नाभिमतः । (३१३)
(ख) आप्तलक्षणम् स्यादेतन्न वयं पुरुषप्रामाण्याद् व्याख्यानमनुमन्यामहे। किन्तु (1)
प्रमाणमविसंवादि वचनं सोर्थविद् यदि ।
न ह्यत्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भवः ॥३१४।।
यस्य प्रमाणमविसम्वादि वचनं सोर्थवित् वेदार्थज्ञाता यदीष्यते । नन्वत्यन्त8oa Da परोक्षेषु वेदार्थेषु प्रमाणस्य सम्भवो न हि कस्यचिदस्ति तत्कथं सम्वादादर्थविद् व्यवस्थाप्यते। (३१४) अपि च (1)
यस्य प्रमाणसंवादि वचनं तत्कृतं वचः।
स आगम इति प्राप्तं निरर्थाऽपौरुषेयता ॥३१५।। यस्य प्रमाणसम्वादि वचनं स यदि व्याख्याता तदा सम्वाद आगमलक्षणमिति तेन संस्कृतं वच आगम इति प्राप्तमिति निरर्थाऽपौरुषेयता वेदानां कल्पिता। (३१५)
१ तत्कल्पितो न प्रमाणं पुरुषातिशयाभावप्रतिज्ञापि विरोधिता त्वयं। २ ज्ञानवानन्यो प्रसक्तः। ३ मन्त्रकर्तुर्ज्ञानातिशयसाधनेन वस्तुबलागतस्य निवारणे को दोषः (?)।
४ बहुषु व्याख्यातृषु यः प्रमाणं प्रत्यक्षादि संस्यन्दयति तद्भाषितं गृह्यत इति अवताऽपौरुषेयत्वादागमलक्षणादन्यदेवमागमलक्षणं स्यादित्याह।
५ प्रमाणानुगृहीतत्वे ख्यापनं संस्कृतत्वं । इन प्रकाशयति जैमिनिशवरस्वाम्यादिवैयसिङ्गात् ।