________________
आप्तचिन्ता
४०३
यपि केचित् साधारणा मन्त्रविदो मन्त्रशास्त्रज्ञाः कांश्चन मन्त्रान् विषादिशभनान् कुर्वते तेषां प्रभोर्मन्त्रप्रणेतुरतिशयितशक्तेः स प्रभावः सामर्थ्य तदुक्तस्य न्यायस्य समयानुष्ठानादेर्वृत्तितः। आराधितस्य प्रभोः प्रभावादीदृगक शक्तिलाभ इत्यर्थः । (३०९) तस्मात् (1)
कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फलेप्सुना।
अशक्तिसाधनं पुंसामनेनैव निराकृतम् ॥३१०॥ कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः । फलेप्सुना सर्वेण येन पुरुषाः शक्तिविशेषवन्तो मन्त्रान् प्रणेतुमीशते (1) अनेनैव मन्त्रादिप्रणयनं प्रति पुंसामशक्तिसाधनं यत् किमपि* मी मां स कैरिष्टं तन्निराकृतं बोद्धव्यं । (३१०) एतदेव स्फुटयितुमाह (1)
बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं यत्तु वर्ण्यते ।
प्रमाणाभं यथास्ति न हि शेषवतो गतिः ॥३१॥ "बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं शक्तिविशेषनिराकरणं यत्तु वर्ण्यते तत् प्रमाणाभमनैकान्तिकं (1) न हि बुद्धिमत एकस्य शक्तिविशेषो न दृष्ट इत्यन्यस्यापि तथा। अभ्यासाधीनो हि प्रकर्षों गुणेषु तदभिलाषादभ्यासोपि सम्भवी (1) दृश्यते च प्रज्ञादिगुणानामतिशयितः प्रकर्ष इति बुद्धिमत्वाद्यसाधनं ।। न हि शेषवतो लिङ्गात् (1) यथार्थानुमेयस्य गतिर्भवितुमर्हति। (३११) ___b. अपि च (1) पुरुषातिशयमनिच्छतां जैमिनीयानां महत् दुःश्लिष्टं । तथा हि (1)
अर्थोयं नायमों न इति शब्दा वदन्ति न । • कल्प्योयमर्थः पुरुषैस्ते च रागादिसंयुताः ॥३१२॥
प्रभुस्तुष्टस्तत्प्रणीतानप्यधितिष्ठतीति भावः। २ अपि च केचित् मन्त्र(न्) कुळते न सर्व इति वदता पुरुषातिशय एव समर्थितः स्यात्।
३ मन्त्रकर्तुर्ज्ञानातिशयसाधनेन वस्तुबलायातस्य निवारणसाधनाभावात्।
४ सत्त्वादिन्द्रियत्वाद् वचनात् पुंस्त्वन्तस्या (?)पुरुषवदित्यत आह। आदिना प्राण्यादिमत्वात्।
" विपक्षवृत्तेः सन्दे (हे)न सर्वस्य शेषवत्वात्।