________________
४०२
प्र० वा० वृत्तौ ( ३ परिच्छेदः)
सा चानुपूर्वी वर्णानां तद्धेतुप्राहिचेतसाम् । इच्छाविरुद्ध सिद्धीनां स्थितिक्रमविरोधतः || ३०६ ॥ कार्यकारणतासिद्धेः पुंभ्यो वर्णक्रमस्य च । सर्वो वर्णक्रमः पुंभ्यो दहनेन्धनयुक्तिवत् ॥३०७॥
सा च वर्णानामानुपूर्व्वी' तद्धेतुग्राहिचेतसां रचनाकृतः पुरुषात्प्रवृत्तेति न स्थितक्रमा वर्णाः पुरुषेच्छयाऽविरुद्धसिद्धीनां वर्णानां स्थितस्य क्रमस्य विरोधात् (1 ) न हि स्थितक्रमाणां हिमवद्विन्ध्यमलयानामिच्छया विपरीतक्रमः शक्यः ( 1 ) वर्णास्त्विच्छया विपर्य्यास्यन्तें विकल्पक्रमानुविधायित्वाच्च ( 1 ) तद्वत् कल्पितोयर्थो न प्रमाणं कार्यकारणतायाः सिद्धेः ( 1 ) सर्व्वे वैदिकोऽन्यश्च वर्णक्रमः २ पुंभ्यो भवतीत्यवधारणं। दहनेन्धनयुक्तिवत् ( 1 ) ' यथैकस्य दहनस्य इन्धनपूर्व्वकत्वदृष्ट्या सर्वोऽग्निरिन्धनपूर्व्व इति न्यायः । (३०६, ३०७)
असाधारणता सिद्धा पुंसां च क्रमकारिणां । तो ज्ञानप्रभावाभ्यामन्येषां तदभावतः || ३०८ ॥
अतएव च मन्त्राख्य' वर्णक्रमकारिणां पुंसां ज्ञान प्रभावाभ्यां पुरुषान्तरैः सहासाधारणताऽसमानता" सिद्धा । अन्येषा' न्तयोर्ज्ञानप्रभावयोरभावतः । (३०८)
च, आप्तचिन्ता
(क) आप्तसिद्धिः
a. ननु तन्त्रज्ञा रथ्यापुरुषा अपि मन्त्रं किञ्चित् कार्यसमर्थं प्रणयन्तो दृश्यन्ते । ततो मन्त्रकरणान्नातिशयसिद्धिरित्याह ।
येपि मन्त्रविदः केचिन् मन्त्रान् कांश्चन कुर्व्वते ।
प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः ॥ ३०९ ॥
' ( वर्णनिरर्थकत्वेपि एकविकल्पेन विषयीकृताः क्रमिणो वर्णाः सहिता
उक्ताः) । २ (पुरुषः कारणं वर्णक्रमस्येति ) ।
३ पुंविकल्पानुक्रमे सति भावादसति वा भावात् ।
४
' तथा लोकवर्णक्रमवद् वैदिकः साध्यते ।
" समीहितफलसाधनवर्णक्रमज्ञानं समीहितसंपादनशक्तिप्रभावः ।
६.
" तदयं क्रमवत्त्वेन ज्ञातुः स परोक्षदृश्यस्ति ।
* प्राक्तनानाम् ।
८
एवमन्योपि स्यात् कथं पुरुषातिशयसिद्धिः ।