________________
वर्णानुपूर्विचिन्ता
४०१ तज्ज्ञानजनितज्ञानः स श्रुतावपटुश्रुतिः।.
अपेक्ष्य तत्स्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि ॥३०३॥ तस्य पूर्ववर्णस्य ज्ञानेन ग्राहके णोत्तरवर्णसहकारिणा जनितं ग्राहकं ज्ञानं यस्मिन् स तत् ज्ञानजनित उत्तरो वर्णः मन्दमुच्चार्यमाणत्वात्' श्रुतौ श्रवणज्ञानेऽपटुश्रुतिर्मन्दचारि श्रवणज्ञानः । तस्य पूर्ववर्णस्य स्मृतिमपेक्या - त्मनि स्मृति पूर्ववर्णानन्तरत्वेनाधत्ते (1) यस्मात् पूर्ववर्णानन्तरत्वेनोत्तरः स्मयते (1) तस्मात्तदनन्तर एवासौ गृहीत इत्यर्थः। (३०३)
(ख) आनुपूर्वी पौरुषेयी इत्येषा पौरुषेय्येव तद्धेतुमाहिचेतसाम् ।
कार्यकारणता वणे ह्यानुपूर्वीति कथ्यते ॥३०४॥ इत्येवमुक्तेन क्रमेण 'वणेषु क्रमभाविषु तद्धेतुचेतसां वर्णो 'त्थापकचेतसां 79b वक्तृसन्तानवर्तिनां। तद्ग्राहिचेतसां वर्णग्राहकचेतसां श्रोतृसन्तानवर्तिनां कार्यकारणतषा यथायोगं वर्णापेक्षा क्रमवती कारणता कार्यता चानुपूर्वी कथ्यते (1) सा च पुरुषनिवर्त्यत्वात् पौरुषेय्येव । (३०४)
अन्यदेव ततो रूपं तद्वर्णानां पदे पदे ।
कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत् ।।३०५॥ यतो न नित्यत्वं ततोन्यदेव वर्णानां तद्रूपं पदे पदे प्रतिपदमेकाध्यवसायविषयत्वेपि कर्तृ संस्कारतो वर्णसमुत्थापकचित्तशक्तिभेदाज्जातं भिन्नं । क्रमण चानुभूय स्मृत्या सहितं स्मृतं सत् कार्यभेदकृदर्थप्रतिपत्तिविशेषकारि । (३०५)
. 'साकारालम्बनं ज्ञानकाल एवाकारसमुत्थापकचित्तेनाकारो जनित इति समकालता।
शनरच्चारितो यदा वर्णः।
यो मनसापि जपेत् तदर्थकरोहमिति यत्र विभक्ता वर्णा अवधार्यन्तेवस्थायां। त्वरिते क्रमश्रुतिः कुतः।।
'एवं रेफाकारविसर्जनीयोत्थापकानि पूर्वपूर्वसमनन्तरप्रत्ययानि। 'कार्यजन्यत्वात् । अन्यथा देशाद्यनियमानियमे च देशादेरेवेन्धनत्व ।
क्रमभेव एव वर्णभेदः केवलं रसपदात्र स पदान्तरस्याभेदो नावधार्यते। 'यतः।