________________
४००
प्र० वा. वृत्तौ (३ परिच्छेदः)
ङ. वर्णानुपूर्विचिन्ता
(क) आनुपूर्व्यभावे नार्थभेदः अथ त्वन्मतेपि (1)
आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतौ ।
न कार्यभेद इति चेद् अस्ति सा पुरुषाश्रया॥३०१॥ आनुपूर्व्या वर्णव्यतिरिक्तायामसत्यां सरो रस इति प्रसिद्धानुलोमविलोम क्रमायां श्रुतौ कार्यस्य स्वज्ञानस्य भेदो न स्यादिति चेत्। अस्त्यस्मन्मते सानुपूर्वी पुरुषाश्रया' पुरुषकृता प्रतिपदं भिन्ना ततो न ज्ञानभेदप्रसङगः। (३०१) तथा हि (1)
यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः ।।
जायते तदुपाधिः स श्रुत्या समवसोयते ॥३०२॥ यो ध्वनिर्जायते तद्वर्णसमुत्थो ज्ञानतः। यश्चासौ वर्णश्च यद्वर्णस्तस्य समुत्थानं कारणं तच्च तत् ज्ञानञ्च यद्वर्णसमुत्थान ज्ञानं तस्माज्जातं यद्वर्णसमुत्थानज्ञानजं तस्मात् ज्ञानमतः। अयमर्थ आद्यस्य वर्णस्य यत्समुत्थापकं विवक्षात्मकं ज्ञानं तेन समनन्तरप्रत्ययेन सता द्वितीयवर्णसमुत्थापकं ज्ञानं जन्यते तेन च द्वितीयो वर्ण एवं द्वितीयवर्णसमुत्थापकात् ज्ञानात् तृतीयवलुत्थापकज्ञानोत्पत्तौ तृतीयवर्णोत्पत्तिरिति कारणक्रमाद्वर्णोत्पत्तिक्रम उक्तः । पुनः कार्यक्रमेण क्रमं दर्शयितु माह" । स उत्तरो वर्णस्तदुपाधिः पूर्ववर्णविशेषेणस्तदनन्तर इत्यर्थः। श्रुत्या श्रवणज्ञानेन ग्राह्यवर्णकार्येण श्रोतृसन्तानवत्तिना समवसोयते । क्रमोत्पन्ना वर्णाः स्वस्वजनितज्ञानरसहभाविन एव गृह्यन्ते। (३०२)
ननु क्रमभाविनां सहदर्शनाभावात्कथं पूर्ववर्णोपाधि ग्रहणमित्याह (1)
१ वर्णाव्यतिरिक्ता। २ तत्रैकत्वाध्यवसायः परं मन्दानां । ३ वक्तृस्थं पूर्वपूर्ववर्णसमुत्थापकहेतु।
कारणभेदात्कार्यभेदमुक्त्वा।
"वर्णाश्च क्रमेणोत्पन्नाः श्रोतृसंतानस्थानां स्वविषयज्ञानानां क्रमेण हेतवो भवन्तो जायन्त इति दर्शयन्नाह।
६ परकाले पूर्ववर्णध्वंसात्।