________________
मीमांसकमतनिरासः
३९९
ननु याप्युपांशुमनोजपकाले शब्दाभासा धीः सापि १ मति: पारम्पर्येण तज्जत्वात् तस्य व्यक्तिरिति चेत् । यद्येवं शब्दविकल्पवदर्थविकल्पा २ अपि तत्प्रभवा इति तेपि तथा शब्दव्यक्तयः स्युः । ३ परः न केवलाच्छब्दप्रभ'वत्वात् तद्वचक्ति: ४ किन्तु तदर्था शब्दविषया सतीति चेत् न चार्थविकल्पः शब्दविषयः । शब्दविकल्पस्य ५ शब्दविषयत्वमसिद्धं कल्पनाया वाच्यवाचकयोज - नाया अन्वयात् सम्बन्धात् न च कल्पना वस्तुविषयेति कथ्यते । ( २९९ ) .
घ. समयकाराणामुक्तया फलविशेष:
अस्माकन्तु मते (1)
स्वसामान्यस्वभावानामेकभावविवक्षया । उक्तः समयकाराणामविरोधो न वस्तुनि ||३००||
स्वसामान्यस्वभावानां शब्दस्वलक्षणसामान्यलक्षणानां प्रत्यक्षविकल्पबुद्धिविषयाणामेकत्वाध्यवसायवशादेकभावस्यैकत्वस्य ।" विवक्षया समयकाराणां समयकर्तृभिः शक्तिमत्पुंभिर्मन्त्राणामुक्तेरविरोधः । उपांशुजपमनोजपयोर्व्वैफल्य - - विरोधाभावो दृश्यविकल्प्यावेकाध्यवसायादेककार्यकारित्वेनाधिष्ठितत्वात् तत्कुरुतः। ये तु वस्तुभूतं मन्त्रमिच्छन्ति तेषाम्विरोध एव तदाह । न वस्तुनि विरोधाभावः। न ह्युपांशुजपादिविषयो वस्तुकल्पितत्वात् । ( ३०० )
१ तद्व्यक्तिस्तस्य शब्दस्य व्यक्तिर्ज्ञानं पूर्व्वशब्दजज्ञाना हि संस्कारस्य मनोजपे शब्दप्रतिभासात् मन्त्रत्वं ।
२
'संकेतात् किल वादिनो मनोजपादिसाफल्यमाह दृश्यविकल्प्यैक्यात् ।
३ विकल्पा अपि मन्त्रा इति तत्प्रयोक्तापि फलभाग् स्यात् । एतेनातिप्रसङ्ग उक्तः । 'यतस्तद्वान् प्रयोक्ता स्यात् ।
४
* स्वलक्षणाविषयत्वाद् विकल्पस्य समयकाराभिप्रायसंवादनात् फल
प्राप्तेः । न तु वस्तुन्यविरोधः शब्दात् फले मननमशब्दो यतः ।
* वासनाप्रबाधादुत्पत्तेर्बाह्यासत्त्वेपि ।
9
'दृश्यविकल्पैक्यात् ।
“ समयकाराभिप्रायसम्पादनात् फलप्राप्तेः न तु वस्तुन्यविरोधः शब्दात् फले मननमशब्दो यतः ।
* यदुक्तं वर्णा एव मन्त्रस्तत्र ।