________________
३९८
प्र० वा० वृत्तौ (३ परिच्छेदः)
तद्व्यक्तिश्च बुद्धिरुच्येत । सा ' यस्माद् वक्तु
३
र्भवति स फलेन युज्यते यदि
3
४
तदा नातिप्रसङ्गः । नन्वेमपि श्रोतुः फलसम्बन्धः स्यान्न वक्तुरेव । वक्ता हि व्यक्तेर्ज्ञानस्य कारण मिति फले युज्यते । तच्च ज्ञानहेतुत्वं श्रोतुरप्यस्त्येव।'
(२९७ )
किञ्च (1)
अनभिव्यक्तशब्दानां करणानां प्रयोजनम् । मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ॥ २९८ ॥
अभिव्यक्तोऽनिवेदितः शब्दो यैस्तेषां करणादीनां प्रयोजनं प्रयोगः 79a यदा । तदा ताल्वादिकरणप्रस्पन्दमात्रयो' "पांशुजपः क्रियते न तु व्यक्तमुच्यते । यदा च तामपि विना ११ मनोमात्रेण मनोजपो वा क्रियते तदा द्वावपि जपाविमौ व्यर्थो स्यातां । १२ शब्दो हि श्रोत्रगोचर उच्यते न च जपयोरनयोः श्रोत्रगोचरः कश्चिदस्ति। (२९८)
पारम्पर्येण तज्जत्वात् तद्वचक्तिः सापि चेन्मतिः । ते तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ||२९९||
३ यो वक्त्रा पद्यमानं मंत्रं शृणोति ।
8
१ व्यक्तिः । २ पुरुषात् । यस्मात् । * नित्ये शब्दे बुद्धिजन्मार्थं पुंसो व्यापाराभा (वा) दनुपकार्योपकारकत्वान्न वक्ता श्रोतुरुपकार इति विशेषोनयोर्न्नास्ति ।
६ मन्त्रविषयं । • किं न फलेन युज्यते ।
श्रोत्रविषयं न नीतः यैस्तात्वादिभिः ।
* प्रयोगो व्यर्थः स्यादिति संबन्धः । यत्रौष्ठप्रस्पन्दमात्रेण उपांशुजपः क्रियते सोपि व्यर्थः स्यादित्यादावुत्पत्य व्यक्ति नित्येषु अनाधेयातिशयेषु ।
१० यदपि विशिष्टः प्रयोक्ता मन्त्रफलमश्नुत इति तत्रापि समीरितार्थोत्पादयोग्योत्पादनमुत्पन्नस्य उत्तरोत्तरविशेषोत्पादनम्वार्थः सविशेषजन्मनि स्यात् ।
११ ताल्वादिकरणप्रस्यन्दमात्रां ।
१२ यस्माच्छ्रत्रग्राह्य एव शब्दः तत्स्वभावश्च मन्त्रः । उपांशुमनोजपयोश्च श्रोत्रग्रहणाभावादशब्दत्वं तत्त्वादमन्त्रः कथं फलवान् । अयमाशयः शब्दात्मनां मन्त्राणां व्यक्तिहेतुः शब्दग्राहिज्ञानहेतुपुरुषः प्रयोक्ता तस्य फलेन सम्बन्धः चेत् । तदोपांशुमनोजापी न फलयोगी स्यादभिव्यक्त्यहेतुत्वात् । मन्त्रस्य श्रोत्र - ग्राह्यापौरुषेयं नित्यत्वाभ्युपगमात् ।