________________
मीमांसकमतनिरासः
प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते ॥२९४॥
प्रयोक्तुर्भेदो यजमानत्वं तदपेक्षा च नित्यस्य परैरसंस्कार्यस्य न युज्यते । (२९४) संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः । प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् ॥ २९५ ॥
संस्कार्यस्यापि भावस्य' वस्तुन: संस्कर्तुर्भेदो हि भेदको भवितुमर्हति । नतु ब्राह्मणशूद्रादीनां वस्तुतो जातिभेदः कश्चिदस्ति व्यवहारमात्रत्वात् तस्य । ततश्च प्रयोक्तुर्भेदादपि मन्त्राणां शक्तौ नियमो न सम्भवति । ननूपलभ्यते नियता मन्त्राणां शक्तिः। सत्यमुपलभ्यते किन्तु सा पुरुषकृते समयेऽभ्युपगम्यमाने भवेत् न त्वकृतत्वे । * यो हि ब्राह्मण इति प्रसिद्धः तस्यैवायं विधिप्रयुक्तो मन्त्रः फलप्रदो नेतरस्येति कर्त्रा पुरुषेण शक्तिविशेषवता समितत्वान्मन्त्रस्य । (२९५) (ख) नित्यानां मन्त्राणां प्रयोजको निरर्थकः
किञ्च (1)
ܕ
अनाधेयविशेषाणां किंकुर्वाणः प्रयोजकः ।
प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता ||२९६ ||
नित्यानामनाधेयविशेषाणां प्रयोक्ता ' पुरुषः किंकुर्व्वाणः प्रयोजक इष्टः । अनुपकारकस्य प्रयोजकत्वे सर्व्वस्य तथात्वप्रसङ्गात् । यद्यभिव्यक्तिः प्रयोग उच्यते ॥ साऽभिव्यक्तिनित्यानां प्रागेव सामान्यप्रस्तावे निराकृता । न हि स्वरूपपरिणाम आवरणविगमो वा सा नित्यानां घटते । (२९६)
(ग) नित्यस्य व्यक्तिर सिद्धा
बुद्धिः कदाचित् सम्भाव्यते । तदा ( 1 )
C
३९७
व्यक्तिश्च बुद्धिः सा यस्मात् स फलैर्यदि युज्यते । फलसंबन्धो वक्ता हि व्यक्तिकारणम् ||२९७॥
२
१ आधेयातिशयस्य ।
कारणस्य ।
* यदा तु समयो मन्त्रस्तदा समयकर्त्ता वस्त्वनपेक्षः समयं करोतीत्याह । ४ अन्यथापि न कश्चित् फलमश्नुतेऽन्यो न शूद्रादिरिति कुतोयं विभागः । * नोत्पादनं । * नित्यस्य तदनुपपत्तेः नित्यस्य तु युक्तापेक्षा ।
• अभिव्यक्तिर्न घटते ।
• नित्यत्वान्न योग्योत्पत्तिः किन्तु शब्दविषया बुद्धिः ।