________________
प्र० वा. वृत्तौ (३ परिच्छेदः) कार्यस्य मन्त्रप्रयोगनिस्प(? पाद्यत्वेनेष्टस्य साधनं सिद्धि: स्यात्। केनचिच्छक्तिविशेषवता मत्प्रणीतं मन्त्रमेवंप्रयुञ्जानस्यायमर्थः सेत्स्यतीति समयस्य कृतत्वात् सिद्धिः स्यात्। कविसमयादिवत् काव्यपाठकस्यार्थसिद्धिः ।
अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः ॥२९२॥ अथापि भावशक्तिः 1 स्वभावशक्तिः सादृश्यपौरुषेयाणां स्यात। यया-२ भिमतसिद्धिः। एवन्तीन्यथा प्रयुक्तेपि मन्त्रे ३ स्यादभिमतमविशेषतो वर्णात्मकस्य मन्त्रस्य। (२९२)
(ग) वर्णक्रमो मन्त्रेष्वकिञ्चित्करः वर्णानां क्रमविशेषो मन्त्रः ततस्तद्ग्रहणेन फलमिति चेत्।
क्रमस्यार्थान्तरत्वञ्च पूर्वमेव निराकृतम् ।
नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्ष्यते ॥२९३॥ क्रमस्य वर्णेभ्योऽर्थान्तरत्वञ्च पूर्वमेव निराकृतं। "वर्णानुपूर्वी वाक्यञ्चेदित्य (३।२५९)त्रान्तरे। अस्तु वा क्रमः तस्य नित्यत्वात् तदर्थस्य तन्निस्पा (?ष्पा)द्यस्यार्थस्य नित्यं सिद्धिः स्यात्। न ह्यविकले कारणे कार्यक्षेपो युक्तः। अथ प्रयोगविधानाद्यपेक्षास्ति साप्ययुक्ता। अपेक्षणे कस्यचित् सहकारिणोऽसामर्थ्य स्वभावतः स्यात्। समर्थस्यान्यापेक्षाऽयोगात्। अपेक्षणीयात् समर्थस्वभावोत्पत्तौ तु स्यादपेक्षा। (२९३) किञ्च (1)
सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी। मन्त्राणां भावशक्तिर्यदीदृशी कार्यविशेषसाधिका तदा सर्वस्य यजमानस्य इतरस्य च ते मन्त्रा अभिमतार्थसिद्धेः साधनं स्युः। न हि कार्यकारिता तेषां कञ्चिदेव प्रति नेतरान् साधारणत्वाद् भावस्वभावस्य ।
ग. नित्यत्वे दोषः (क) असंस्कार्यस्य न प्रयोक्तृभेदापेक्षा अथ प्रयोक्तुविशेषमपेक्ष्य फलप्रायाः। तच्चासत् ।
१ मत्काव्यं यः पठति तस्मै मयेदं देयमिति समयात् कर्तुः । २ विधिना नियोगं। तस्य तद्रूपविशिष्टं विधिशून्ये विपरीतपाठादौ च । ४ आधेयातिशयस्य। पातक्यावश्च ।