________________
मीमांसकमतनिरासः
३९५
कस्मात् पुनर्व्यतिरेकनिश्चयापेक्षा । न हि साधनतयोपात्तो धर्म इत्येव
साधनं । (२८९)
किन्तर्हि (1)
अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि । तनिश्चयफलैर्ज्ञानैः सिद्धयन्ति यदि साधनम् ॥ २९०॥
अन्वयः सपक्षे' व्यतिरेको विपक्षात् । साध्यर्धार्मणि सत्व म्वा त' निश्चयफलैरन्वयादिनिश्चयप्रयोजनैर्ज्ञानैः प्रमाणात्मभिर्यदि सिध्यन्ति तदा साधनं भवति । निश्चितत्रैरूप्यस्यैव हेतुत्वात् । (२९० )
यदपि व्यतिरेकी हेतुरित्युक्तं तच्चायुक्तमित्याह ।
यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता । स एवास्य सपक्षः स्यात् सर्वो हेतुरनन्वयी ||२९१ ॥
यत्र धर्मिणि साध्यविपक्षस्य मिथ्यात्वस्य साधनाविपक्षव्यतिरेकाद् व्यतिरेकिता वर्ण्यते । यत् कृतकं न भवति तन्मिथ्यार्थञ्च न भवतीति स एव साध्यसाधनवपर्ययनिवृत्तिदर्शनविषयो धर्मी सपक्षः स्यादस्याकृतकत्वस्य हेतोः । विपर्ययनिषेधेन विधेरेव प्रतिपादनात् । यत्र च साध्यसाधनसत्त्वनिश्चयः स एव पक्षः । अतः सर्व्वे हेतुरनन्वयी न केवलव्यतिरेकी । ( २९१)
(ख) समयत्वान्मन्त्राणां कृतकारिता
५
न पक्षस्य वेदस्य कथं सपक्षता सपक्षलक्षण है योगात् । एवं तर्हि सर्व्वः पक्षः सपक्षः स्यात्। भवत्येव किमन्येनेति चेत् । अन्यस्यापि लाक्षणिकं तत्कथं त्यज्यतां । किञ्च (1)
समयत्वे हि मन्त्राणां कस्यचित् कार्यदर्शनम् ।
किञ्चित्का'र्य' कारिणो मन्त्रा अपौरुषेयाश्चेति व्याहतं ( 1 ) तथा हि 78b कस्यचित् सत्यतपःप्रभावतः पुंसः समयत्वे संकेतत्वे मन्त्राणामभ्युपगम्यमाने
' स्वसाध्येन हेतोर्व्याप्तिः ।
२ व्यावृत्तिर्व्या ।
8
हेतोः पक्षधर्मत्वं । य एव मिथ्यात्वव्यवच्छेदस्य विषयः ।
* साध्यधर्मसामान्येन समानोर्थः सपक्षः ।
६
साधर्म्यदृष्टान्त उच्यते न चायमिहास्ति साध्यत्वेनान्वय एव सपक्ष उच्यते । • सङ्केतत्वादेव पौरुषेयत्वमाह ।