________________
३६४
प्र० वा० वृत्तौ (३ परिच्छेदः) विषया नार्थगोचरा न स्व लक्षणविषयाः। तथार्थत्वे शब्दप्रमाणान्तरवैफल्यस्योक्तेः। (२८६)
ख. कृतकत्वेऽपि न दोषः
(क) कृतकत्वान्न मिथ्यात्वनियमः ननु (1)
मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः । सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि ॥२८७॥ हेतावसम्भवे भावस्तत् तस्यापि शङ्कयते।
विरुद्धानाम्पदार्थानामपि व्यापकदर्शनात् ।।२८८।। मिथ्यात्वमर्थशून्यत्वं कृतकेष्वेव वाक्येषु दृष्टमि त्यकृतं वचः (1) सत्यार्थ यदि स्यात् तदा को दोषः। कस्मादेवमित्याह परः । अकृतकत्वस्य साधनस्य विरोधिना कृतकत्वेन साध्य विपर्ययस्य मिथ्यात्वस्य व्यापनात् । अत्राह । विपक्षान्मिथ्यात्वादकृतकस्य हेतोरसंभवेऽसंभवनिमित्तं हेतौ बाधकप्रमाणेऽनुक्तें तस्याकृतकत्वस्यापि मिथ्यात्वे विपक्षे भावः शंक्यते बाधकप्रमाणादर्शनात् ।
ननु मिथ्यात्वं कृतकेषु दृष्टं तदकृतकेषु विरोधिषु कथं स्यादित्याह। विरुद्धानामपि हि व्याप्यानां पदार्थानामेकस्य व्यापकस्य दर्शनात् । यथा प्रयत्नानन्तरीयकत्वयोरेकेन कृतकत्वेनानित्यत्वेन वा व्याप्तिः। (२८७,२८८) किञ्च (1)
नासत्ता सिद्धिरित्युक्तं सर्वतोनुपलम्भनात् ।
असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता ॥२८९।। सर्वतो विपक्षाद्धेतोरसत्ताया अनुपलम्भात् प्रतिबन्धमन्तरेण न सिद्धिरित्युक्तं प्राक् । “न चादर्शनमात्रेण विपक्षेऽव्यभिचारिते" (३।१२)त्यादिना। असिद्धायाम्वासत्यायां विपक्षाद् व्यतिरेकिता सन्दिग्धा (1)
१ आकाशादि। २ सत्यार्थ वेदवाक्यमकृतकत्वादित्यत्रान्वयाभावात् व्यतिरेकिप्रयोगमाह। ३ हेतोः। सत्यार्थत्वस्य । ५ वेदे कृतकनिवृत्तौ मिथ्यानिवृत्तः सत्यता सेष्टव ।