SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ मीमांसकमतमिरातः ३९३ arted मित्येव वचनं यथाऽर्थस्याविसम्वादिमो ज्ञानस्य साधनं यस्मात् पुरुषस्यागसा दोषेणादुष्टोपि वह्नयादिर्नीलोत्पला दावन्यथा अपरार्थज्ञानहेतुर्दृष्ट: । ( २८४) (ख) अकृतकत्वे ज्ञानहेतुत्वाभावः किञ्च (1) न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते । नित्येभ्यो वस्तुसामर्थ्यात् न च जन्मास्ति कस्यचित् ॥ २८५॥ तस्मिन् शब्देऽकृतके मते ज्ञानहेतुतैव न स्यात् न हि नित्येभ्यो वस्तु - सामर्थ्यात् कार्यजन्माशक्तेः कस्यचित् ज्ञानस्यान्यस्य वा जन्मास्ति ( 1 ) क्रमाक्रमयोर्व्यापकयोनित्यान्निवृत्तेः । तद्वयाप्यस्य सामर्थ्यस्याभावात् । (२८५) (ग) शब्दे समारोपितगोचरा बुद्धयः तस्मात् (1) विकल्पवासनोद्भूताः समारोपितगोचराः । जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः || २८६ ।। तत्रानित्यात्मन्युच्चरिते शब्देऽनाद्यन्तेन विकल्पेन चित्तसन्ततावारोपिताया वासनाया विकल्पिक बुद्धयो जायन्ते * समारोपित ' ' गोचराः कल्पितार्थ の १ शक्यनिश्चयः । १२ ज्योत्स्नादि । ३ न हि रागादि पुंदोषसंस्कारादेवार्थेषु ज्ञाप्येषु ज्ञापकानां शब्दानां ज्ञानभ्रमः प्रकृत्यापि मिथ्याज्ञानजननस्य संभाव्यत्वाद् वने दवो रात्रौ नीलोत्पलो रक्तप्रति - . भासि ज्ञानहेतु ज्योत्स्ना पीते शुक्लज्ञानहेतुरिति विना पुरुषञ्च दृष्टेर्व्वनदवादेः; " वादेः सहकारि बलादस्त्वन्यथात्वं नित्ये तु नैवमिति चेत्र शब्देपि सङ्केतसहकार्यपेक्षत्वादनपेक्ष्य ज्ञानजननस्वभावत्वे सङ्केतकरणव्यापारम्विनापि वेदादर्थज्ञानं सर्व्वस्य सदा स्यान्न चैवं तन्न स्थितस्वभावतेति मिथ्याज्ञानहेतुत्वं तदवस्थं । " इष्टे सति । प्रतीत्य जन्मकाले यत् तदजनकं रूपं तत्स्थस्याजनकत्वात् । • एतत्परिहाराय नित्यं स्वकार्यजननञ्च मिथ्याऽदर्शनात् = नित्याकाशादिभ्यो बुद्धयो भवन्तीत्यपि मृषा न ता ( : ) तद्भावभाविन्य: क्रमयौगपद्यार्थक्रियाविरोधात् । १० आकाशाद्याकारः । * स्वागमसंस्कारकल्पनाया बाह्यत्वेन ततः । ५०
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy