________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
हेतोः स्वभावस्य विशिष्ट ' कार्योत्पादनयोग्यताया नियमात् । फले कार्ये स्वभावस्य प्रतिघाप्रतिघादेनियमः । ततो नित्यत्वाभिमतानाञ्च हेतुमन्तरेण स्वभावनियमायोगात् हेतुरेष्टव्यः । कृतके पुनरनित्ये वा भावे रूपस्य नश्वरान - श्वरस्य भेदो नास्ति । कस्मादित्याह । नित्यानित्यस्वभावतया कृतकस्य भेदकानां हेतूनामभावतः । न हि कश्चिदेव हेतुरनित्यं जनयति नापरः सर्व्वेषां कृतकाना - मर्थक्रियाकारित्वात् । तस्य चानित्यताव्याप्तेः । ( २८२)
३९२
"
d. प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता । सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता ॥ २८३||
अतः सर्व्वभावक्षणिकत्वसाधकात् प्रमाणादेवैषां शब्दानामर्थ सम्बन्धस्यापि नित्यता प्रत्याख्येया । सम्बन्धस्य वस्तुत्वे क्षणिकत्वात् । या च शब्दशक्ति782 र्योग्यताख्याऽर्थप्रतिपत्त्याश्रयो ' वर्ण्यते सा च शब्दाद् व्यतिरिक्तैवेति तद्वदनित्या । अथ भिन्ना' तादृशी च सम्बन्धदोषैः “सम्बन्धिनामनित्यत्वान्न सम्बन्धे* अस्ति नित्यते " ( ३ । २३१ ) त्यादिना प्रागुक्तैर्वृषितेति न पुनरुच्यते । * ( २८३ )
(२) a नव्यमीमांसक (भादृ) मतनिरासः
क. अपौरुषेयत्वेऽपि दोषाः (क) अपौरुषेयत्वान्न याथार्थ्यसिद्धिः
न तावदपौरुषेयं वचनमस्तीत्युक्तं । भवतु वा । तथापि (1) नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनम् । दृष्टोऽन्यथापि वह्नचादिरदुष्टः पुरुषागसा ॥२८४॥
१ अयं सप्रतिघस्य जनकोऽयं नेति ।
* सर्व्वेषां विनश्वरस्वभावस्यैव जननात् ।
३ अनन्तरोक्तात् वस्तुमात्रानुबन्धात् । ४ जैमिनीयैः ।
* व्यतिरिक्त एव नास्तीत्यतोधुना ।
६
शब्दवत्
' शब्दशक्तिः सम्बन्धः ।
८
अव्यतिरेकात् ।
* तदेवं ।