________________
निर्हेतुको विनाशः
३९१ यस्मात् परः कारणाभिमतोऽपेक्ष्येत' यदि किञ्चन कार्य विद्येत। अन्यथा यदकिञ्चित्करं वस्तु तत् केनचित् किमपेक्ष्यते । (२७९)
9 एतेनाहेतुकत्वेपि ह्यभूत्वा नाशभावतः। __ सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ।।२८०॥
एतेन नाशस्य निःस्वभावत्वकथनेनाहेतुकत्वेपि सत्यभूत्वा नाशस्य भावतः। सत्तानाशित्व दोषस्य प्रसञ्जन घटादाविव' प्रत्याख्यातं । न ह्यभावो नाम कश्चिद्भवति यस्याभूत्वा भावात् सत्त्वं नाशित्वम्वा स्यात् ॥(२८०) _c. यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां तथा।
नाश(:)स्वभावो भावानां नानुत्पत्तिमतां यदि ॥२८१।। ननु यथा जन्मिनां बुद्धयादीनां मध्ये केषाञ्चिदेव घटादीनां प्रतिघः स्वदेशे वस्त्वन्तरोत्पत्तिव्याघात इष्टः। न बुद्धयादीनां । तथा यदि सतामुत्पत्तिमतामेव नाशः स्वभावः स्यात् नानुत्पत्तिमतां शब्दाकाशादीनां तदा' कथमुक्तं सत्ता - मात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेरिति । (२८१) अत्राह (1)
स्वभावनियमाद्धेतोः स्वभावनियमः फले । नानित्ये रूपभेदोस्ति भेदकानामभावतः।।२८२॥
१ विनश्यता भावेनापेक्षेत यदि भावस्य कर्तव्यं स्यात्।
परता हेतुकेपि नाशेऽभूत्वा भावात् सत्ताऽनित्यत्वञ्च दुनिवारं अभूत्वा भवनहेतुकं इत्यपि विरुद्धं कादाचित्कस्य सहेतुत्वात्। ३ नाशस्य स्वीकृते।
४ स नाशो अभूत्वा भवतीति हेतोः सत्ता च नाशित्वञ्चेति । 'यत्परेण। 'तदेतेनैव। नाशे कस्यापि भावानभ्युप (ग)मात्। 'एतेन सत्वञ्चानश्वरञ्चेति व्यभिचारः।।
ननु नाशस्वभावो भावानां नानुत्पत्तिमतां यदीति प्रकृतं चोद्यं न चात्र नानित्येत्यादिः परिहारः। नाकाशादेः स्वहेतुतो नश्वरताऽनुत्पत्तिमत्वात् ॥ अत्र सिद्धान्त्येवम्मन्यते। यथा सत्वं व्यभिचार्युक्त (:)तथा कृतकोपि कश्चिन्नश्वरः कश्चिनेत्याशङ्कयते। तेनादौ कृतकव्यभिचारं परिहरति ॥ सत्वेप्युच्यते। ये क्वचित् कदाचित् केनचिदज्ञाता ज्ञायन्ते पुनर्न ज्ञायन्ते तेषां सत्तानुबन्धी नाश इति व्याप्तिः। अन्यथा नित्यत्वात् सदा ज्ञानजननप्रसङ्गः। सहकार्यपेक्षापि न। नित्यत्वात् पूर्वमेव निष्पत्तेनिज (न)कस्य।