________________
३९०
प्र० वा. वृत्तौ (३ परिच्छेदः) 77b नश्यन् भाव एव क्षणस्थितिधर्मतया स्वहेतोरुत्पत्तेद्वितीये क्षणेऽभवन्न परा
पेक्षः कारणान्तरनिरपेक्ष इति । तस्य कारणान्तरानपेक्षनाशित्वस्य ज्ञापनाय सा भावानामवस्थाऽहेतुरुक्ता। अहेतुको विनाशो भवतीत्यादि वचसैवास्या अवस्थाया धर्मिणः सकाशात् भेदान्तरप्रतिक्षेपेण चेतसा विकल्पकेन भेदमारोप्य न तु वस्तुतो नाशो नाम कश्चित् भावाद् भिन्नस्वभावो भवति । (२७६)
स्वतोपि भावेऽभावस्य विकल्पश्चेदयं समः।
न तस्य किञ्चिद् भवति न भवत्येव केवलम् ॥२७७।। ३स्वतोप्यभाव स्य भावेऽयन्तत्वान्यत्वविकल्पः समश्चेत्। तथा हि यदि भावाद् भिन्नोप्यभावो ज्ञातो भावः किमिति न दृश्यतेऽभेदे तु भाव एव नाश इति कथं नष्टः। अत्राह (1) न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किन्तर्हि स एव केवलं न भवति। व्यवहर्त्तव्यैकरूपत्वात् तस्य। तत्र च भेदाभेदविकल्पानवतारः। (२७७)
भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः। हि यस्मात् भावे विकल्प एष भेदाभेदात्मक: स्यात् विधेर्चस्त्वनुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वात् भेदाभेदविकल्पाक्षमः। यदि च प्रसज्यप्रतिषेधेपि वस्त्वन्तरविधिस्तदा पर्युदासान्न भिद्येतोभयत्रापि विधेः प्राधान्यात्। पर्युदासो वा न सिध्येत् एकनिवृत्तावपरविधाने स स्यात् निवृत्त्यसिद्धौ तु कथं युक्तः ।
न भावो भवतीत्युक्तमभावो भवतीति न ॥२७८॥ यदा च भावनिवृत्तिविनाशार्थः तदाऽभावो भवतीत्यादि वाक्येन भावो न भवतीत्युक्तं । अभावस्य भावायोगात् । अतश्च हेतुरपि नाशस्य न कश्चित्।(२७८) b.'अपेक्षेत परः कार्य यदि विद्येत किञ्चन ।
यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ॥२७९॥
१ अर्थान्तरमिव नाशं। २ भावस्य नाशः किमन्यस्मान्न वेति जिज्ञासायां। ३ ननु यस्याहेतुको नाशो बौद्धस्य तन्मते। ४ नाशस्य। ५ व्यतिरिक्तमव्यतिरिक्तम्वा। स्थित्यन्यथात्वादिद्धमः। " इति पर्युदासोपि न स्यात् । एवं हि भावो नित्तितो भवति यदि किञ्चिन्न विधीयते।