SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ निर्हेतुको विनाश: अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु । तस्यासत्वादहेतुत्वं नातोन्या विद्यते गतिः ॥ २७३॥ अथ न भावाद्भिन्नो नाशः किन्तर्ह्यभिन्नः । अनन्यत्वे विनाशस्य नाशः काष्ठमेव तु स्यात् (1) तस्य काष्ठ' स्याग्निसन्निधानात् ( 1 ) प्रागेव सत्वादहेतुत्वं 5 नाशकाभिमतस्य । नातो भेदाभेदप्रकारादन्या गतिरुत्पत्तिमतोस्ति । द्विधापि च नाशहेत्वयोगः २ । ( २७३ ) अहेतुत्वेपि नाशस्य नित्यत्वाद् भावनाशयोः । सहभावप्रसङ्गश्चेदसतो नित्यता कुतः || २७४ || ३८९ अहेतुत्वेपि नाशस्य नित्यत्वादाकाशादिवत् भावनाशयोरन्योन्याभावस्वभावयोः सहभावप्रसङ्गश्चेत् ( 1 ) ननु नाशस्यासतो नीरूपत्वान्नित्यता कुतः । वस्तु हि नित्यमनित्यम्वा स्यात् । यत्तु न किञ्चित् तत्कथमुच्यतां ( 1२७४ ) असत्वेऽभावनाशित्वप्रसङ्गोपि न युज्यते । नाशेन यस्माद् भावस्य न विनाशनमिष्यते ॥ २७५॥ अतश्चानित्यत्वादसत्वे नाशस्याभावनाशित्वस्य प्रसङ्ग न ५ युज्यते यस्माद् भावस्य काष्ठादेर्नाशेन हेतुना नाशनं नेष्यते । यदि हि नाशेन नाशः क्रियते इतीष्यते तदा नाशाभावे वस्तुनाशो न स्यात् । किन्तु स्वहेतुत एव भावा एकक्षणस्थितिधर्माण उत्पन्ना द्वितीये क्षणे न भवन्ति न तु नाम कश्चिद् भवति । यस्य नित्यत्वानित्य (त्व) योर्दोषावकाशः । ( २७५ ) a. कथन्तर्हीींदानीमहेतुको नाशो भवतीत्युच्यत ६ इत्याह (1) नश्यन् भावः परापेक्षो न तस्य ज्ञापनाय सा । अवस्थाsहेतुरुक्तास्या भेदमारोप्य चेतसा ॥२७६॥ ' अहेतोरुत्पन्नस्य न वत्यादिभिः किञ्चित्कर्त्तव्यमिति नाशोऽस्तु । प्रध्वंसाभावं नाशं गृहीत्वा परतोद्यमाशङ्कते ऽहेतु हिते क्षणिकवादिनः नित्यं भवेत् भावकालेपीति सहभावः स्यात् । ३ विनाशस्य भावनिवृत्तिलक्षणत्वात् । ४ बौद्धस्य यदि नाशोऽसन्निष्टस्तदा भावस्य नाशित्वं न स्यात् कथमसन् विनाशो भावं नाशयेदिति असतो व्यापारायोगात् । # कथन्तहि भावो नष्ट इति व्यपदेश इत्याह । ६ भावस्य नाश इति व्यतिरेकः कथं यस्य स्वभाव एव नास्ति तस्य किमहेतुकः सहेतुको वेति चिन्तया ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy