________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
तदप्ययुक्तं । परस्परपरिहारेण हि विरोधी नाश इष्ट: । स च परस्परपरिहारोऽभिमतपदार्थवद् घटा दीनामपीति न विशेषः । अथ य एव काष्ठनिवृत्तिरूपः स एव तन्नाशो नान्यः । किमिदं निवृत्तिरूपत्वं काष्ठादन्यत्वं निवृत्तिमात्रात्मकत्वम्वा । अन्यत्वञ्चेत् तदितरस्यापि समानं । निवृत्तिमात्रात्मकत्वञ्च भावान्तरस्यायुक्तं स्वभावाविशेषवत्वात् । यदुत्पत्तौ यन्निवृत्तिः स विरोधी नाशश्चेति चेत् । अन्या तर्हि विनाशान्निवृत्तिः । तत्र च समानः सर्व्व एव प्रसङ्गः । तस्मात् काष्ठं स्वरसनिरोधितया निवर्त्ततेऽग्निकाष्ठादिसामग्र्यास्त्वङ्गारादिकं जायत इति युक्तं । अर्थान्तरस्वभावे तु सति नाशे काष्ठं कस्मान्न दृश्यत इत्यनिवार्यः प्रसङ्गः ।
३८८
तत्परिग्रहतश्चेन्न तेनानावरणं यतः । विनाशस्य विनाशित्वं ;
तेन विनाशाख्येन भावान्तरेण परिग्रहतोवष्टब्धत्वात् काष्ठादर्शनमिति चेत् । न तेन भावान्तरेण काष्ठस्यानावरणं यतस्ततः काष्ठस्यापरिग्रहः । न हि नाशो वस्त्वावरणमविनाशित्वप्रसङ्गात् । न च पूर्व्वापरैकस्वभावस्यावरणं युक्तमित्युक्तं । किञ्च (1)
स्यादुत्पत्तेस्ततः पुनः॥२७१॥
काष्ठस्य दर्शनं ;
भावान्तरभूतस्य नाशस्य यद्युत्पत्तिरिष्यते तदोत्पत्तिलिङगाद् विनाशित्वं नाशस्य स्यात् घटादिवत् । ततः काष्ठनाशस्य नाशात् पुनः काष्ठदर्शनं भवेत्।
हन्तृघाते चैत्रापुनर्भवः । यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वतः ।।२७२।।
ननु चैत्रस्य हन्तुर्व्याघाते कृते चैत्रस्य पुनर्भावो नास्ति यथा, तथात्रापि काष्ठनाशनिवृत्त्या न काष्ठपुनर्भाव इति चेत् । न हन्तुरमरणत्वतः । न हि हन्ता मरणं चैत्रस्य। किन्त्वन्य एवेन्द्रियायुर्निरोधः । येन हन्तृमरणे चैत्रपुनरुज्जीवनप्रसङ्गः । यदि त्वन्द्रियादिनिरोधनिवृत्तिः स्यात् स्यादेवोज्जीवनं तच्च त्वन्मते प्राप्तं । निरोधस्योत्पत्तिभावयोरिष्टः । (२७२ )
' यदुत्पत्तिमत् तद्विनश्वरं ।