SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ निर्हेतुको विनाशः ३८७ इति स्यात् । तच्चाश' क्यत्रियमुत्पन्नत्वात् । व्यतिरेकेप्यग्नेः सकाशात् अर्थान्तरस्य विनाशाख्यस्योत्पत्तौ काष्ठस्य दर्शनम्भवेदविनाशात् । स एवाग्निजन्माऽर्थोऽस्य विनाशस्तेनादर्शनमिति चेत् कथमन्योर्थोन्यस्य शक्तः । एवं ति प्रसङ्गः स्यात् । काष्ठेऽग्निकृतः स्वभावो विनाशो न सर्व्व इति चेत् । काष्ठविनाशयोः कः सम्बन्धः । नाश्रयाश्रयिभावो निषेत्स्यमानत्वात् । कार्यकारणभावश्चेत् अग्नेरपि स विनाशः स्यात् । तस्यापि कार्यत्वात्। तस्मान्न भावान्तरमर्थस्य नाशः ( 1 ) अस्तु वा नाशः काष्ठञ्चेदप्रच्युतप्राचीनस्वभावं कस्मान्न दृश्यते । ननु योसावर्थान्तरस्वभावो वह्निकृतः । स काष्ठस्य नाशो नाशरूपतया प्रतीतेः । विनाशश्चाभावो यश्चाभावः स काष्ठविरोधिरूप एव क्रियते । न चायमर्थान्तरत्वाद् घटवद् विरोधिरूपतया कुर्त्तुमशक्यः । न हि घटवदर्थान्तरत्वाद् धूमोऽग्निकार्यो न भवति । तस्माद् यथान्तररूपोपि धूमोऽग्निना क्रियते तथा विरोधिरूपोपि विनाशीक्रियेत । ययोश्च परस्परपरिहारेण विरोधस्तयोरेकभाव एवापरस्परस्यादर्शनमिति कथमग्निकृतस्यार्थान्तरस्य विनाशसंज्ञितस्य विरोधिनो भावे काष्ठस्य दर्शनमुच्यते । अत्रोच्यते। योसा'वर्थान्तरस्वभावो नाशस्तेन सह काष्ठस्य को विरोधः । 772 यदि सहानवस्थानलक्षणः सम्भाव्यत एव । तद्भावयोनिवर्त्त्यनिवर्त्तकभावदर्शनादग्निशीतयोरिव । किन्तु भावान्तरस्य यदि काष्ठविनाशकत्वं । स च नाशः किमर्थान्तरनिवृत्तिः । अर्थान्तरत्वे तुल्यः प्रसङ्गः । निवृत्तिश्च निःस्वभावा न तत्र हेतुव्यापार इति वक्ष्यते । परस्परपरिहारस्थितिल' क्षणश्चेद् विरोधः । एवमप्यतिप्रसङ्गः। यथा काष्ठाद् भिन्नमभिमतपदार्थान्तरं तथान्यदपि घटादिकमिति तदपि काष्ठस्य विनाशः स्यात् । ननु य एव काष्ठस्य नाशरूपतया विरोधिरूपतया च स्वहेतुभिः क्रियते स एव नाशो न तु यः कश्चिदर्थ इति कथमतिप्रसक्तिः । १ काष्ठस्याभावोऽभूतत्वान्न दृश्यते । २ भवत्वग्निजार्थस्याभाव इति नाम तथापि । ३ सर्व्वे पदार्थाः काष्ठस्य विनाशः स्युः । * तेन परिग्रहात् स्वीकारात् काष्ठं न दृश्यते । तदुत्पादेपि काष्ठं तथैव दृश्यते । 8 ततो नातिप्रसङ्गः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy