________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
f. अथ बुद्धिरभिव्यक्तिर्व्वर्णानां सा च क्रमवती वाक्यमिष्टं तदा वाक्यस्यापौरुषेयत्वेनेष्टत्वाद् बुद्धिरपौरुषेयी स्यात् । तत्र (1)
बुद्धेरपुरुषाश्रये ॥२६७||
बाधाभ्युपेत प्रत्यक्षप्रतीतानुमितैः समम् ।
बुद्धेरपुरुषाश्रये पुरुषानाश्रयणे 'बाघा । कैरित्याह । अभ्युपेतप्रत्यक्षप्रतीतानुमितैः समं एककालमेव बुद्धेरपुरुषाश्रयत्वस्याभ्युपेतेन पुरुष गुणत्वाभ्युपगमेन प्रत्यक्षप्रतीतेन च पुरुषकार्यं त्वेन । तत्प्रयत्नका 1 र्यत्वेन वा कादाचित्कत्वा-.' नुमितेन कार्यत्वेन च बाधा ।
g. वर्णानामानुपूर्वी वाक्यं स्यादित्याह ।
नुपूर्व्याश्च वर्णेभ्यो भेदः स्फोटेन चिन्तितः ॥ २६८॥ कल्पनारोपिता सा स्यात् कथं वाऽपुरुषाश्रया ।
4
बर्णेभ्य आनुपूर्व्या भवश्च स्फोटेन चिन्तितेन एकत्वेन ह्यभिन्नस्य क्रमश इत्यादिना चिन्तितः। न हि वर्णेभ्यो व्यतिरिक्ता आनुपूर्वी काचिदुपलभ्यते । अभेदपकने च सरोरस इत्यादी प्रतिपत्तेर्भेदाभावप्रसङ्गः । प्रकारान्तरस्य चाभावः। तस्माद् वस्तुभूतानुपूर्व्याऽयोगात् कल्पना' रोपिता सा स्यात् । तथा चापुरुषाश्रया कथमुच्यते ।
(ङ) निर्हेतुको विनाशः
कथं पुनरवगम्यते ध्वनिरवश्यमनित्य इत्याह । सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः ॥ २६९ ॥ अविनाशात् स एवास्य विनाश इति चेत् कथम् । अन्योन्यस्य नाशोस्तु काष्ठ कस्मान्न दृश्यते ॥ २७०॥
सत्तामात्रानुबन्धित्वान्नाशस्य ध्वनेरनित्यता । न खल्वसतामन्यस्मान्नाशोत्पत्तिः स्वहेतोरेव तु विनश्वरस्वभावतयोत्पन्ना भावा विनश्यन्ति । विनाशो हि क्रियमाणो भावाद् व्यतिरिक्तो 'वा भवेत् । अव्यतिरेकपक्षे भाव एव क्रियत
• ज्ञानं व्यक्तिरित्यत्र बुद्धीनां अनुक्रमो वाक्याव्यक्तीनां *मवत्वात् । तच्चायुक्तन्न बुद्धिरूपत्वाद् वाक्यस्य अभ्युपगम्य दोषमाह । तीर्थस्य । " भावस्यैव कार्यत्वात् ।
'साध्ये प्रतिज्ञायाः । सद्भावभावित्वात् ।
<
अभ्युपगम्याह ।